________________
शिलोन्छे मयंकाण्डः ___- [अभि० मूलश्लोकाङ्काः ३३८- ४३१] कामुके कमनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिके, जागरिताऽपि जागरी ॥३१॥ पूजितोऽपचायितोऽपि, तुन्दिभोदरिकावपि । तुन्दिले न्युजोऽपि कुब्जे, खलतोऽप्यन्द्रलुप्तिके ॥३२॥ पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिविस्फोटः पिटके स्मृतः ॥३३॥ कोठो मण्डलकमपि, गुदकीलोऽपि चाऽसि । मेहः प्रमेहबदायुर्वेदिकोऽपि चिकित्सके ॥३४॥ आयुष्मानपि दीर्घायुः, कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि, पारिषद्योऽपि सभ्यवत् ॥३५॥ स्युनैमित्तिकनैमित्तमाहर्ता गणके लिपौ। लिखिताऽपि मपी मेला, कुलिके कुलकोऽपि च ॥३६॥ अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवस्ताततुल्ये, प्रभविष्णुरपि क्षमे ॥३७॥ जाजिके जङ्घाकरोऽपि, चानुगोऽप्यनुगामिनि । पर्येषणोपासनाऽपि, शुश्रूषायामधीयते ॥३८॥
जावाकरोऽपि ॥ ३८ ॥
3
अभि. ३०