________________
चौपेक्षिणामपि दोषः-- 'शक्ताश्च यं उपेक्षन्ते तेऽपि तद्दोषभागिनः । इति नारदस्मरणात् । * मिता. स्तेनालाभ्रे हृतदानम् घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके ॥
(१) प्रयत्नेनान्विष्यमाणघातकचोराद्यनुपलब्धौ तु कथमिति — 'घातितापहृते दोषो ग्रामभर्तुरनिर्गते । पदादौ प्रयातचिह्न इति शेषः । 'विवीतभर्तुस्तु पथि ।' विवीताद्युपकण्ठ इति शेषः । तुशब्दोऽन्यस्यापि समर्थस्य यथासंनिधानं दोषवत्त्वज्ञापनार्थः । ' 'चोरोद्धर्तुरवीतके ।' पूर्वोक्ताद्यभावे चोरोद्धर्तुरेव दोषः । सर्वथा चाऽपहृतं द्रव्यं प्रयत्नेनान्विष्य राज्ञा लब्धव्यमित्यभिप्रायः । यद्वा अपहृते द्रव्ये घातिते च सद्रव्यके चोरे द्रव्यानुपलब्धौ कस्य दोष इत्यपेक्षिते ग्रामभर्तुरनिर्गत इत्यादि समानम् । विश्व. २।२७५ (२) चौरादर्शने अपहृतद्रव्यप्राप्त्युपायमाहघातित इति । यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषः तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरस्य पदं स्वप्रामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं वाऽर्पयेत् । तथा च नारदः - ' गोचरे यस्य लुप्येत तेन चौर: प्रयत्नतः । ग्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान् मार्गपालांश्च दिक्पालांश्चैव दापयेत् ॥' इति । विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तद्धृतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुर्मार्गपालस्य दिक्पालस्य वा दोषः । + मिता.
* अप, वीमि मितावत् । + वीमि मितावत् ।
(१) यास्मृ. २।२७१; अपु. २५८/६० पू.; विश्व. २१२७५ तेप ( ताप ); मिता; अप; व्यक. ११८ तेऽपहृ ( तेऽथ हृ ); विर. ३४३ पूर्वाधें (ग्रामेषु च भवेद्दोषो ग्रामभर्तुरबीक्षिते । स्तु (श्च ) रोद्ध ( रघ) ; पमा. ४४७; व्यउ. १२५; विता. ७९४-५; समु. १५२. व्य. कां. २१९
१७४३
(३) विवीतं तृणादिप्रयोजनभूः ।
÷अप.
(४) ग्रामः ग्रामाध्यक्षः । ग्रामग्रामबहि: सीमाभ्यन्तरतद्बहिःसीमाभ्यन्तरतद्बहिर्भूतदेशेषु चोरिनं राज्ञा ग्रामरक्षकबहि: सीमारक्षकेभ्यो दापयितव्यम् । विर. ३४४
स्वीनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ॥
(१) असंनिहिते तु ग्रामभर्तरि - 'स्वसीनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहि: कृष्टाद् दशग्राम्यपि वा तथा ॥ स्वशब्दो धनज्ञात्यर्थ: । यत्र द्विपदचतुष्पदाद्यनवरतं संचरति, सा वसीमा । स्पष्टमन्यत् । विश्व. २।२७६
"
(२) यदा पुनर्ग्रामाद्बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्रामवासिन एव दद्युः, यदि सीम्नो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्वनेकग्राममध्ये क्रोशमात्राद्बहिः प्रदेशे घातितं मुषितं वा, चौरपदं च जनसंमर्दादिना भनं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो दशग्रामीं वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशादेव राजा दद्यात् । 'चौरहृतमवजित्य यथास्थानं गमयेत् स्वकोशाद्वा दद्यात्' इति गौतमस्मरणात् (गौध. १०।४६-७) । मुषितामुषितसंदेहे मानुषेण दिव्येन वा निर्णयः कार्यः । 'यदि तस्मिन् दाप्यमाने भवेन्मो संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वाऽपि साधयेत् ॥' इति वृद्धमनुस्मरणात् । मिता.
यदा
(३) ग्रामसीम्न्येव यदि मोषों भवति, तदा स एव ग्रामो मुषितं दद्यात् । यदि तु पदं चौरमार्गे ग्रामसीनो
÷ शेषं मितावत् ।
(१) यास्मृ. २।२७२; अपु. २५८।६०-६१ म्यथ ( म्योऽथ ); विश्व. २।२७६ क्रोशा पुन: ( कृष्टाद् दशग्राम्यपि वा तथा ); मिता; अप; विर. ३४४ क्रोशाद ( कृष्टा द ); पमा. ४४७; नृप्र. २६३ ग्रामस्तु (द्भूयस्तु ) क्रो ( को ); व्यउ १२५; व्यम. १०२; विता. ७९५ क्रमेण नारदः; समु. १५२.