SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्तेयम् १६८७ मन्दापराधमित्यादि । अल्पापराधम् । अत्याशितं | उत्तमो दण्डः उत्तमसाहसः, कर्मणा, व्यापादनेन च अतिमात्र भुक्तान्नम् | आमकाशितं अजीर्णान्नम् । द्रोहचिन्तनेन च हेतुना । श्रीम. तुल्यशीलपुंश्चलीप्रावादिककथावकाशभोजनदातृभिरपसर्पयेत् । एवमतिसंदध्यात् । यथा वा निक्षेपापहारे व्याख्यातम् । आप्तदोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावर प्रजाताम् । स्त्रियास्त्वर्धकर्म । वाक्यानुयोगो वा । . ब्राह्मणस्य सत्रिपरिग्रहः श्रुतवतस्तपस्विनश्च । तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च कर्मणा व्यापादनेन च । व्यावहारिकं कर्मचतुष्कं--- षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च । चोरादीन् कथं जानीयादित्याह — तुल्यशीलेत्यादि । तुल्यशीलादिभिः तुल्यशीलाः समानवृत्ताः पुंश्चल्यो बन्धक्यः प्रावादिकाः प्रवदनचारिणः दक्षभाषा: कथावकाशभोजनदातारः कथादातारः कथकाः अवकाशदातारो भोजनदातारश्च इत्येतैः, अपसर्पयेत् अपसपैः कृतैर्जानीयात्, अर्थाच्चोरादीन् । एवमति "संदध्यात् उक्तेन प्रकारेण तान् वञ्चयेत् । ज्ञानोपायान्तरमन्यत्रोक्तं चेहातिदिशति—— यथा वेति । निक्षेपापहारे, यथा व्याख्यातं 'क्षीणदायकुटुम्बमित्यादिना निरूपितं, तथा वा जानीयादिति वाक्यशेषः । निश्चितापराधस्य दण्डमाह-- आप्तदोषमिति । निश्चितापराधं, कर्म कारयेत् । गर्भिण्याः स्त्रियाः प्रसूतायाश्चानतीतमासाया न दण्ड इत्याह- न त्वेवेत्यादि । स्त्रियास्त्वर्धकर्मेति । पुंसो यावद् दण्डकर्म विहितं तस्यार्ध स्त्रियाः । वाक्यानुयोगो वा वाचा परिभाषणं वा कर्तव्यं अर्धस्याप्ययोगे । ब्राह्मणस्येति । तस्य, श्रुतवतो विदुषः, तपस्विनश्च, सत्रिपरिग्रहः सत्रिभिः परिग्रहणं तथा परिग्रहणेन ततइतः पर्यटनक्लेशयोजनेति यावत्, अर्थाद् दण्डः । तस्यातिक्रम इति । उक्तदण्डातिरिक्तदण्डकरणे, कर्तुः, कारयितुश्च (१) कौ. ४/८. व्य. कां. २१२. व्यावहारिकं कर्मचतुष्कमिति । लोकव्यवहारप्रसिद्धानि चतुष्प्रकाराणि दण्डकर्माणि भवन्ति । षड् दण्डाः दण्डाघाताः षडित्येकः प्रकारः, सप्त कशाः कशाप्रहाराः इति द्वितीयः, द्वौ उपरिनिबन्धौ हस्तयोः पृष्ठतः कृत्वा संश्लेषितयोर्बन्धनं तेन सह शिरसो बन्धनं चेति द्विरूपं बन्धनमिति तृतीयः, उदकनालिका च नासायां सलवणोदकनिषेचनं च इति चतुर्थः । श्रीमू. परं पापकर्मणां नववेत्रलताद्वादशकं, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत् तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य, एकपर्वदहनमङ्गुल्याः स्नेहपीतस्य प्रतापनमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या चेत्यष्टादशकं कर्म । तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादागमयेत् । दिवसान्तरमेकैकं च कर्म कारयेत् । पूर्वकृतापदानं, प्रतिज्ञायापहरन्तं, एकदेशदृष्टद्रव्यं, कर्मणा रूपेण वा गृहीतं, राजकोशमवस्तृणन्तं, कर्मवध्यं वा राजवचनात् समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् । सर्वापराधेष्वपीडनीयो ब्राह्मणः । तस्याभिशस्ताङ्को लालाटे स्याद् व्यवहारपतनाय । स्तेये श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः । ब्राह्मणं पापकर्माणमुघुष्याङ्ककृतव्रणम् । कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। अन्यत् पापकर्मणां चतुर्दशभेदं दण्डनकर्माह — परं पापकर्मणामिति । परं उक्तचतुष्कातिरिक्तं, पापकर्मणां, नववेत्रलताद्वादशकं नवहस्तदीर्घवन्यलतया द्वादश प्रहाराः, द्वौ ऊरुवेष्टौ द्वाभ्यां रज्जुभ्यां पादयोर्वेष्टनं तेन सह शिरसोऽपि वेष्टनमिति द्विप्रकारावूरुवेष्टौ, विंशतिर्नक्तमाललताः विंशतिः करञ्जलताप्रहाराः, (१) कौ० ४१८,
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy