SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ लेख्यम् युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ (१) लेख्यस्वरूपे चेद् व्यभिचाराशङ्का, कोऽत्र निर्णय हेतुः ? उच्यते, संदिग्धेति । संदिग्धश्चासावर्थश्चेति संदिग्धार्थः, तद्विशुद्धिरर्थः प्रयोजनं यस्य लेख्यस्य तत् तथोक्तम् । संदिग्धार्थनिर्णये तदेव प्रमाणमित्यर्थः । तच्च स्वहस्तलिखितं यदि स्यात्, ततः शुद्धमेव । संशये तु युक्त्यादिभिर्निर्णयः कार्यः । तस्मिन् काले देवदत्तस्य द्रव्यप्रयोजनमासीद्, यज्ञदत्तश्च तदा स्वधनं प्रयुक्तवान् इत्यादिका युक्तिः । समानदेशस्थौ तदोभावप्यभूतां इति प्राप्तिः । अप्रतारकंश्चासौ लेखकः प्रसिद्धः, तदीया लेख्या इति क्रिया । चिह्न मुद्रालिपिविशेषादिकम् । संबन्धो बलोपध्याद्यभावः । आगमो लेख्यलक्षणयोगः कूटसाक्षित्वाद्यसंभवों हेतुः । एवं युक्त्यादिभिर्यत् परीक्षितं लेख्यं तत् प्रमाणमित्यवसेयम् । विश्व. २।९५ । (२) शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदिशब्दात् साक्षिलेखक - स्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति । युक्त्या प्राप्ति युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नमसाधारणं श्रीकारादि । संबन्धः आर्थिप्रत्यार्थेनोः पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमोऽस्यैतावतोऽर्थ स्य संभावितः प्राप्त्युपायः । एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यशुद्धिः स्यादित्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायनः 'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' । इति साक्षिसंभव विषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनं न मयैतत्कृतं पत्रं कूट द्ध्यर्थं स्वहस्तलिखितं तु यत् ) ; विश्व. २ ९५ अपुवत्; मिता.; व्यमा ३३९; अप लेख्य (लेख्ये ); स्मृच.६३; पमा. १३३; स्मृसा. ९६६ स्मृचि. ४४; नृप्र. १२; सवि. १२०; . मच.८।१६४ ग्ध (ग्धे ); चन्द्र. १३१; वीमि ; व्यप्र. १४९; व्यउ. ४५; व्यम. १३; विता. १३२ग्ध (ग्वे); प्रका. ४१; समु.४४ ग्ध (ग्वे); विन्य, १६. ३५५ इति ॥ मेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णय' Xमिता. (३) युक्तिप्राप्तिः पत्रलिखित देशकाले तयोः सहावस्थानम् । चिह्न मुद्रादिकम् । +व्यमा. ३३९ (४) लेख्ये प्रमाणतया संदिग्धे स्वहस्तलिखितादिभिः प्रामाण्यलिङ्गैर्युक्त्यादिभिश्च कारणैः शुद्धिः संशयनिवृत्तिः प्रामाण्यावधारणलक्षणा स्यात् । एतच्चाधमर्णेन साक्षिरहितं स्वहस्तेन कृतं यल्लेख्यं तद्विषयवचनम् । तत्र ह्यधमर्णस्य न मयैतल्लिखितमिति प्रत्यवस्थानसंभवः । तत्र तेनैव यदन्यल्लेख्यं कृतं तत्स्वहस्तलिखितं तेनेव निर्णयः । आदिशब्देन च पितृनामगोत्रसब्रह्मचारित्वानां ग्रहणम् । युक्त्यादीनामपि तत्रैव पत्रके स्वयं प्रमाणतया प्रमाणान्तरानुग्राहकतया वा निर्णायकत्वम् । युक्तिरर्थापत्तिः । प्राप्तिरेकत्र देशे काले च वादिप्रतिवादिनोः स्थितिः । एतच्च प्रमाणान्तरानुग्राहकतया शुद्धिहेतुर्न स्वातन्त्र्येण । यदि हि नैकत्र देशादौ तयोः स्थितिस्तदा लिखितमप्रमाणमेवेति निश्चिते स्वहस्तलिखितादिषु लेख्यप्रामाण्यावधारकेषु विचारकाणां जिज्ञासैव न जायते । क्रिया संव्यवहारः । ययोः खलु नास्त्यार्यद्रविडयोरिव संव्यवहारस्तत्र लेख्यं प्रति प्रामायमसंभव निरस्तम् । चिह्न मुद्रा । संबन्धो वादिप्रतिवादिनोः प्राग्विवादात्परस्परं विश्वासपूर्व आदानप्रतिदानादिः । आगमो विवादास्पदीभूतस्यार्थस्य स्वस्वामिसंबन्धोपायः क्रयादिः । अस्यार्थिन एतावद्धनं क्रयादिनोपायेनास्य संभवत्येतद्बुद्धिरिति हेतुरनुमानम् । स्वहस्तलिखितादिकं न लेख्यस्य शुद्धौ युक्त्यादिनिरपेक्षं कारणं भवितुमर्हति । अनैकान्तिकत्वात् । सन्ति खलु पुरुषाः कुशला ये पुरुषान्तरलिखिततुल्यं लेख्यमापादयन्ति । पितृनामादीनां वाऽभेदः संभवति । अप. (५) तत्र स्वहस्तलिखनमुक्तमेव । युक्त्यादीन्युच्यन्ते । तत्र यदि गूढपत्रविभावनार्थमेवाह यस्मिन् काले मयास्य शतं गृहीतमिति पत्रे लिखितमस्ति तत्काले नास्य शतसंभावना । न वा मम शतेन प्रयोजनम् । सेयमाशङ्का युक्त्या निराक्रियते — अस्ति तत्कालेऽस्य X सवि., व्यप्र, व्यउ, विता मितागतम् । चन्द्र., व्यम. मितागतं अपगतं च । + शेषं मितागतम् । * स्मृच. अपगतम् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy