________________
व्यवहारकाण्डम्
२०६
नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥ 'दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥
(१) 'छलं तत्र न कारयेदिति वदन्नन्यत्रार्थहानिप्रतिपादकवचनाच्छलानिरसनेनाऽपि व्यवहारनयनं कार्यमिति ज्ञापयति । एवं चार्थविवादेषु यत्र नार्थहानिवचनं तत्रैव हीनस्य वादो ग्राह्यो नान्यत्रेत्यवगन्तव्यम् । स्मृच.४९
(२) आचारी व्यवहारः । छलं पराजयम् । दैवेति । अनुपस्थाने भङ्गमङ्गीकृत्यापि दैवादेरनुपस्थितस्यापि न भङ्ग इत्यर्थः । व्यचि. ३२ चन्द्र. १२१
(३) आचारकरणे उत्तरादौ ।
(४) न कारयेद् निरस्येदित्यर्थः । अत्र पराजित इत्यभिधानात् पूर्व हानिपदं भङ्गपरमित्येके । व्यवहारे छलस्य निरस्यत्वान्न निगदनमात्रेण भङ्गः, उपन्यस्तानामपि साक्षिणां मध्ये दोषनिश्चयसंभवात् । किन्तु निगदकपक्षे अनुत्कटकोटिकः संशय इत्यपरे । वीमि . २ । ७७
(५) 'छलं तत्र न कारयेत्' इति वदता यत्र वचनेनार्थहानिः प्रतिपादिता तत्रैव पुनर्विवादाभावोऽन्यत्र तुहीनतानिमित्तं दण्डं कृत्वा पुनर्वादः प्रवर्तनीय एवेति सूचितम् । व्यप्र. ७६
कात्यायनः अभियोगस्य प्रत्यभियोगेन न निराकरणम् । अस्यापवादश्च । अभियुक्तोऽभियोक्तारं नाभियुञ्जीत कर्हिचित् । अन्यत्र दण्डपारुष्यस्तेयसंग्रहणात्ययात् ॥ ४९ दिव्ये (नेन) त्वो (तो) निर्ण (निश्च); स्मृसा. १२२ (नोपस्थायी भवेद्यस्तु हीनं तमपि निर्दिशेत् ); व्यचि. ३२ यदा कश्चित् (भवेद्वादी); सवि. १०४ ( = ); चन्द्र.१२० स्मृसावत्; व्यसौ.३४ त्वो (तो) निर्ण (निश्च) यदा कश्चित् ( भवेद्वादी); वीमि २ ७७ व्यचिवत्; व्यप्र. ७६; प्रका. ३१ दिव्ये (ऽनेन); समु.२४.
(१) अप. २।१६ नारदः; व्यक. ३५; स्मृच. ४९; पमा. ८२ तस्मिन्काले ( तत्काले तु ); स्मृसा. १२२ नारदः; व्यचि. ३२; व्यनि. स्मृत्यन्तरम्; चन्द्र. १२१ दैवराज (राजदैव ); व्यसौ. ३४; वीमि. २ ७७ दैव (देव); व्यप्र. ७६; विता. ५४; प्रका. २१ यदा (यथा) स्मृत्यन्तरम् ; समु. २४. २) व्यमा २९९ नाभि (अभि); व्यचि. १७.
दण्डादिषु च ममाप्यनेन दण्डपारुष्यादि कृतमिति प्रत्यभियोगो दातव्य एव । तथैव तदभियोगस्य निस्तारात् । व्यमा. २९९
अप्रतिवचने अभियुक्तस्य दण्ड्यत्वम्
उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ॥ दुष्टत्वलिङ्गानि आकारेङ्गितचेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते ॥ कॅम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशोषाभिमर्षणे । भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ॥ स्वरभेदच दुष्टस्य चिह्नमाहुर्मनीषिणः ॥
(१) प्रतिवादीति- द्वयोरप्युपादानम्, अन्योन्यं प्रतिपक्षवादात् । ओष्ठाभिमर्षणं लेहनम् । *व्यमा. ३१३ (२) आकारोऽत्र क्रोधजनिता शरीरविकृतिः ।
+ व्यक. ३२
(३) इदं संभावनार्थे न निश्चयार्थम् । विता. १०४ विविधानि वादहानिकारणानि
श्रावयित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ । अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥
* व्यप्र. व्यमावत् । + शेषं व्यमावत् ।
(१) पमा. ८ १; वीमि . २ ७ उपायैश्चोद्यमानस्तु ( पूर्वपक्षे यथार्थं तु) दातु (दण्ड). (२) व्यमा. ३१३; व्यक. ३२ भाव (चार); व्यसौ. ३१; व्यप्र.७१; विषय. १०:
(३) व्यमा. ३१३ वर्ण्य (कल्य); व्यक. ३२ भिमर्षणे ( वमशनम् ); व्यनि. ( प्रस्वेदो ह्यथ वैवर्ण्यमोष्ठशोषाभिमर्शनम्) नारदः; व्यसौ. ३१ णे ( णम् ); व्यप्र. ७१ व्यसौवत्; विता.१०४ भिमर्षणे (वमर्शने) भू (भ्रू); प्रका. ३१ र्षणे (र्शनम्) नारदः समु. २४ प्रकावत्, नारदः; विव्य. १० आष्ठशोषाभिमर्षणे (मुखशोषोऽभिमर्शनम् ) भूलेखनं स्थानहानिः (भूलेखं स्थानहानिश्च).
(४) व्यमा ३१३ हमा (हान्या ); व्यक. ३२; व्यनि. नारदः; व्यसौ. ३१ चिह्न ( हेतु); व्यप्र. ७१; विता. १०४; प्रका. ३१ व्यमावत्, नारदः; समु. २४ व्यमावत्, नारदः; विव्य. १० व्यमावत् .
(५) शुनी. ४।६३३ यदा ( तु यत्) (अन्यपक्षाश्रयाद्वादी हीनो दण्डयश्च स स्मृतः ); अप. २।१६; स्मृच. ४६; संवि. १०२ यदा (तदा); व्यप्र. ७२; प्रका. २९: समु.२३.