________________
१ देवाधिदेवकाण्डः ।
बाह्यात् वाह्यवाचिनः शब्दात्परे गामिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा - वृषगामी, वृषयानः, वृषासन:, शम्भुः ॥ तस्य हि वृषो यानम् इति रूढिः ॥ आदिशब्दाद् वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा - ' नरवाहनः कुबेर:' तथा 'नरगामी, नरयानः' इत्यादि ॥
ज्ञातेयसंबन्धे यथा—
ज्ञातेः स्वसृ-दुहित्रा - त्मजा - प्रजा - वरजा - दयः ॥ ९॥
यमस्वसा
ज्ञातिः स्वजन:, तद्वाचिनः शब्दात्परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः । स्वत्रादीनां च ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च विष्णुः । यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः ॥ आदिशब्दात्सोदरादयो गृह्यन्ते । यथा - कालिन्दीसोदरो यमः । 'कविरूढ्या' इत्येव । नहि भवति यथायमुना यमखसा, तथा शनिखसापि ॥ ९॥
आश्रयाश्रयिभावसंबन्धे यथा
आश्रयात् सद्मपर्याय-शय-वासि - सदा ऽदयः ।
आश्रयो निवासः तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वतां नाम आश्रयवतां आश्रितानां नाम आहुः ॥ यथा - सद्मानः, युसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । द्युवसतयः, दिवाश्रयाः, युशयाः, युवासिनः, द्युसदः, देवाः ॥ द्यौः स्वर्गः, स च तेषामाश्रय इति रूढिः । 'कविरूढ्या' इत्येव । नहि भवति यथा सद्मानो देवाः, तथा भूमिसद्मानो मनुष्या इति ।
वध्यवधकभावसम्बन्धे यथा
वध्याद् भिद्-द्वेषि-जिद्-घाति-ध्रुग-ऽरि-ध्वंसि शासनाः ॥ १० ॥ अप्यऽन्तकारि-दमन-दर्पच्छित्-मथना - ऽदयः ।
,
,
यो घात्यः तद्वाचिनः शब्दात्परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः ॥ यथा— पुरभित्, पुरद्वेषी, पुरजित् पुरघाती, पुरधुक् पुरारिः, पुरध्वंसी, पुरशासनः ॥ १० ॥ पुरान्तकारी, पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः ॥ तस्य हि पुरो वध्यः' इति रूढिः ॥ आदिशब्दात् - पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयीति । वध्यः इति वधार्हमात्रेऽपि । तेन — कालियदमनः, कालियारिः, कालियशासनः, विष्णुः । इत्यादयोऽपि गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥
1
,