________________
न्यायकोशः। समाप्तपुनरात्तत्वम्-[क] क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचकपदस्य विशेषणान्तरान्वयार्थ पुनरनुसंधानम् । नियताकाङ्कारहितान्वयबोधोत्तरं विशेष्यवाचकपदस्य पुनरनुसंधानम् इति समुदितार्थः (राम० १ पृ० २)। अत्र व्युत्पत्तिः समाप्ते वाक्यसमाप्तौ पुनरात्तता ग्रहणम् इति । तच्च समाप्तपुनरात्तत्वम् विशेष्यवाचकपदनिष्ठः काव्यदोषः उत्थाप्याकाङ्क्षास्थल एव प्रवर्तते न तूत्थिताकाङ्क्षस्थल इति बोध्यम् ( दि० मङ्गल० )। यथा उदयति चन्द्रः कुमुदबन्धुः इत्यादौ समाप्तपुनरात्तत्वं दोषः । तदुदाहृतं चन्द्रालोके समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥ इति। [ख] केचित्तु निराकाङ्क्षबोधजनकवाक्योत्तरत्वविशिष्टतद्वाक्यघटकीभूतपदार्थान्वितविशेषणबोधकपदवत्त्वम् इति वदन्ति । समाप्तिः-१ अवसानम् । तच्च तत्तद्वस्तुकालचरमसंबन्धः । यथा समाप्त यज्ञकर्मणि इत्यादौ । समाप्तिस्तु यस्मिन्ननुष्ठिते संपूर्णमिदं कर्म इति प्रमा। सा च ग्रन्थादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्यतन्तुसंयोगे ग्रामगमनादौ ग्रामचरणचरमसंयोगे प्रमा। एवं तत्र तत्रोहनीया (वै० उ० १।१।१ पृ० ५)। २ चरमवर्णः (त० प्र० १)। यत्र ग्रन्थसमाप्तिः। ३ चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नं तत्सजातीयं वर्णान्तरम् । केचित्तु ४ आरब्धकर्मजन्यश्वरमवर्णपर्यन्तवर्णसमूहरूपग्रन्थादिः इत्याहुः । ५ चरमवर्णध्वंसः ( त० प्र० १ ) ( मू० म० १ पृ० २३ )। चरमकृतिध्वंसः। यथा ग्रन्थसमाप्तिः स्वोत्पत्तिक्षणध्वंसः स्वस्य समाप्तिः (म० प्र०)। आद्या प्रवृत्तिरारम्भः इति जैमिनीयारम्भ- . लक्षणानुसारादिदं लक्षणम् । तस्य चरमकृतिध्वंसस्य च स्वप्रतियोगिविषयत्वेन ग्रन्थनिष्ठत्वं बोध्यम् (म०प्र०)। ६ चरमवर्णजन्यम् आरब्धकर्मचरमवांशे लौकिकप्रत्यक्षात्मकम् आनुपूर्वीविशेषविशिष्टतावद्वर्णविषयकसमूहालम्बनानुसंधानं समाप्तिः इत्यन्य आहुः ( मू० म० १ पृ० २४ )। ७ ज्ञानविशेष एव समाप्तिः इत्यपर आहुः ( म० वा० पृ० ५)। ८ परिच्छेदः । ९ वधः । १० समाधानम् ( विश्वः )। ११ समर्थनम् (मेदि०)। १२ प्राप्तिः (शब्दच० ) ( वाच०)। १२२ न्या० को..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org