SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ९४१ पदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षा मपेक्षते ॥ इति । सकर्मकः- (धातुः ) [क] आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकः । यथा चैत्रो ग्रामं गच्छतीत्यादी संयोगानुकूलव्यापारबोधको गमधातुः सकर्मकः (ग० व्यु० का० २) (वै० सा० पृ० ६०-६१ )। अत्र अग्नौ जुहोति इत्यादौ अग्न्यादिनिष्ठफलं गृहीत्वा धातोः सकर्मकत्ववारणाय आश्रयानवच्छिन्न इति फलविशेषणम् । परे तु धातोः फलं व्यापारश्च द्वयमर्थ इति धातोः स्वार्थफलावच्छिन्नस्वार्थक्रियान्वयबोधकत्वं सकर्मकत्वम् । जानाति इत्यादौ सकर्मकत्वव्यवहारो भाक्तः इत्याहुः । जानात्यादीनां धातूनां तु नामान्वितोद्देश्यत्वातिरिक्तविषयत्वरूपविभक्त्यर्थान्वय्यर्थकत्वात्मकं गौणं सकर्मकत्वम् इति ज्ञेयम् ( का० व्या० पृ० ३ )। प्राश्चस्तु सर्वत्र क्रियामात्रं धात्वर्थः। द्वितीयासाकाऋतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकत्वव्यपदेशः । न तु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृतावव्याप्तत्वात् इत्याहुः (श० प्र० श्लो० ७३ पृ० ९३ ) ( त० प्र० ख० ४ पृ० ८३ )। अत्रायं विशेषः । वृक्षात्पर्ण पततीत्यादावपि अधःसंयोगावच्छिन्नस्पन्दस्य पतधात्वर्थत्वेन धात्वर्थतावच्छेदकसंयोगात्मकफलशालिनो भूतलादेरपि कर्मत्वविवक्षायां वृक्षात्पर्ण भूमितलं पतति इति प्रयोग इष्ट एव । अत एव द्वितीया श्रितातीतपतित० (पाणि० २।१।१४) इत्यादिसूत्रे पतितशब्दप्रयोगे द्वितीयासमासविधानम् तदुदाहरणं च नरकं पतितः नरकपतितः इति साधु संगच्छते । परे तु यदि च तत्र सकर्मकत्वव्यवहारो नेष्टः तदा कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्यैव धातोः सकर्मकत्वम् । यथा गम्यादेः । न तु पतेः। अधःसंयोगरूपफलस्य पर्णे कर्तरि एवान्वितत्वात् । अधः इत्यस्य संबन्धिसाकाङ्कतया संबन्धित्वेन पर्णस्यैवान्वयात् इत्याहुः ( का० व्या० पृ० ४) (ग० व्यु० का० २.)। [ख] फलान्वितव्यापारबोधकः इति प्राञ्चो नैयायिका आहुः । [ग] शाब्दिकास्तु व्यापारानधिकरणवृत्तिफलबोधको धातुः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy