SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ ૨૪ न्यायकोशः । घटेना नित्येन । अतो नित्यानित्यसाधर्म्यादनिवृत्तः संशयः ( वात्स्या ० ५।१।१४ ) इति । अत्र नित्यानित्यसाधर्म्यात् इति पदं संशयकारणोपलक्षणम् । हेतुज्ञाने अप्रामाण्यशङ्काधानद्वारा साध्यसंशयात् सत्प्रतिपक्ष देशनाभासोयम् ( गौ० वृ० ५|१|१४ ) । [ ख ] यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव (वात्स्या० २।२।७)। [ग] समानधर्मदर्शनादियत्किचित्संशयकारण बलात्संशयेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कार्यत्वाद्घटवदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते घटे चैन्द्रियकत्वं तुल्यम् । यथा कार्यत्वान्निर्णायकादनित्यत्वं निर्णीयते तथैन्द्रियकत्वात्संशयकारणादनित्यत्वं संदिह्यताम् ( गौ० वृ० ५।१।१४ ) । तथा चोक्तम् संदेहहेतुसद्भावात्सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ।। ( ता० र० प० २ श्लो० ११६ ) इति । [घ] साधारणधर्मं प्रदर्थ संशयोद्भावनम् । यथा शब्दः अनित्यः कार्यत्वादित्यादौ शब्दस्यानित्येन घटेन सह कार्यत्वरूपं साधर्म्यं यथा अस्ति तथा नित्येन शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं साधर्म्यमस्ति इत्युभयसाधर्म्यदर्शनात्संशयः स्यात् । एकपरिशेषे नियामकाभावात् ( नील० पृ० ४४ ) इति । संसर्गः - १ [क] संबन्धः । यथा पक्षे साध्यसंसृष्टत्वज्ञानमनुमितिकारणम् (मु० २ ) इत्यादौ । [ख] संसर्गताख्यविषयतावान् । यथा शाब्दबोधे चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (ग० व्यु० १) इत्यादौ घटवद्भूतलम् इति शाब्दबोधीयः संयोगाख्यः संसर्गः । २ व्यव - हारशास्त्रज्ञास्तु विभागानन्तरं यत्तव मम च धनं तदावयोः इति कृतसमयेनैकत्रावस्थानरूपो धनसंबन्ध: ( संसृष्टिः ) संसर्गः इत्याहुः । ३ धर्मज्ञास्तु पातकिसंबन्धः इत्याहुः । पात किसंसर्गस्य पापहेतुत्वमाह मनुः ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः मनु० अ० ११ श्लो० ५४ ) यो येन पतितेनैषां संसर्ग याति मानवः । न तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ ( मनु० अ० ११ श्लो० १८१ ) । प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । सह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy