________________
न्यायकोशः। कारस्तु विरुद्धभावद्वयकोटिकसंशयाङ्गीकारेणोपपद्यते । परे तु स्थाणुत्वतदभावपुरुषत्वतदभावकोटिक इति तद्वाक्यार्थ इत्याहुः ( नील० )। [छ ] अनवधारणात्मकं ज्ञानं संशयः ( सर्व० सं० पृ० २३७ अक्षपा० )। [ज] विरुद्धकोटिद्वयावगाहिज्ञानं संशयः ( सर्व० सं० पृ० ३५५ पात० )। न्यायवार्तिककृन्नये संशयस्त्रिविधः असति विशेषदर्शने साधारणधर्मज्ञानजन्यः विशेषादर्शने सति असाधारणधर्मज्ञानजन्यः विशेषादर्शने सति विप्रतिपत्तिजन्यश्चेति । आयो यथा उच्चस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वा इति संदिग्धे । स्थाणुः पुरुषो वा इति वा ज्ञानम् । द्वितीयो यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो न वा इति संदिग्धे। यथा वा नित्यादनित्याञ्च व्यावृत्तेन भूमात्रासाधारणेन गन्धवत्त्वेन विशेषमपश्यतो भवति भुवि नित्यत्वानित्यत्वसंशयः । अत्र वैशेषिका आहुः। असाधारणधर्मः संशायको भवन् व्यावृत्त्यैव भवति । यथा शब्दत्वव्यावृत्तिनित्ये अनित्ये चास्तीति शब्दो नित्यो न वा, इति संशयः । व्यावृत्तिश्च साधारणधर्म एव इति नाधिक्यम् । तथा च सिद्धान्तः साधारणधर्मादेकस्मादेव सर्वत्र संशयः इति ( त० व० परि० १२ पृ० २१४-२१५ ) । तृतीयो यथा यत्र शब्देन कोटिद्वयोपस्थितिद्वारा प्रामाण्यं स्वतो प्राचं परतो ग्राह्य वा इति मानसः संशय उत्पद्यते ( न्या० वा० ) ( त० भा० पृ० ४१-४२) ( त० प्र०) (गौ० बृ० १।१।२३ ) (मु० ) (सि. च०)। कणादनये द्विविधः संशयः बहिर्विषयकः अन्तर्विषयकश्च । एतन्मते द्विविधोपि संशयः साधारणधर्मवत्ताज्ञानादेव भवति नान्यस्मात् इति विज्ञेयम् । तत्र बहिर्विषयकोपि द्विविधः दृश्यमानधर्मिकः अदृश्यमानधर्मिकश्च । तत्र दृश्यमानधर्मिको यथा ऊर्ध्वत्वविशिष्टस्य धर्मिणो दर्शनात् अयं स्थाणुः पुरुषो वा इति । अत्र भाष्यम् प्रत्यक्षविषयेपि स्थाणुपुरुषयोरूलतामात्रदर्शनात् वक्रकोटरादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत आकृष्यमाणस्यात्मनः प्रत्यये दोलायते किं नु खल्वयं स्थाणुः स्यातू पुरुषो वा (प्रशस्त० गु० पृ०२४ ) इति । अदृश्यमानधर्मिको
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org