SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ ९२२ न्यायकोशः। ज्ञेयम् संवोधनविभक्त्यन्तप्रकृत्यर्थोन्यत्र विशेषणतया नान्वेति (ग० . व्यु० संबु० पृ० ११७-११८ ) इति । शाब्दिकास्तु [ख] क्रिया विनियोगफलकाभिमुखीकरणम् ( ल० म० )। [ग] अनभिमुखस्याभिमुखीकरणं संबोधनम् ( काशिका० ) इत्याहुः । संबोधनपदार्थस्य क्रियायामेवान्वय उक्तो हरिणा संबोधनपदं यच्च तक्रियाया विशेषणम् ( वाक्यप० ) इति । स्थितस्याभिमुखीभावमात्रं संबोधनं विदुः । प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते ॥ (वाक्यप० ) इति च । [५] अन्यत्रासक्तस्याभिमुखीकरणलक्षणोऽभीष्टक्रियासु विनियोगाय ज्ञापनादि. रूपव्यापारविशेषः ( वाच० ) इति । संबोध्यत्वम्-१ [क] क्रियाकरणाय वऋभिप्रेतत्वम् । वक्तृनिष्ठविलक्षण बोधविशेष्यत्वं वा। यथा चैत्र व्रज इत्यादौ प्रथमार्थः । अत्रोक्तं हरिणा ... प्राप्ताभिमुख्यः संबोध्यः क्रियासु विनियुज्यते ( वाक्यप० ) इति । अत्र तादृशसंबोध्यत्ववांश्चैत्रोनुमतव्रजनवान् इत्याकारको बोधः । [ख] शाब्दिकास्तु संबोधनविषयत्वम् इत्याहुः (ल० म०)। २ प्रशंस्यत्वम् । यथा सुमित्रामात नैतत्ते विचित्रं चित्रयोधिनः इत्यादौ संबुद्धिसुबर्थः । अत्र मातृशब्दस्य ऋकारादेरकारादेशः । संभवः-१ ( अनुमानम् ) [क] अविनाभाववृत्त्या च संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणम् । तदप्यनुमानमेव ( गौ० वा० २।२।२) । अत्र संभवः प्रमाणान्तरम् इति पौराणिका आहुः । संभवोप्यनुमानमेव न तु प्रमाणान्तरम् इति वैशेषिका नैयायिकाश्च प्राहुः (त० व० पृ० १००) (नील० पृ० ३४ ) । अत्र भाष्यम् संभवोप्यविनाभावित्वात् ( व्याप्तिमूलकत्वात् ) अनुमानमेव ( प्रशस्त० २ पृ० २८ ) इति । [ख] भूयःसहचारार्धानज्ञानम् । यथा संभवति ब्राह्मणे विद्या संभवति सहस्रे शतम् ( गौ० वृ० २।२।१ ) ( त० दी० ) ( त० व० पृ० ९९ ) इति ।[ग] अविनाभाविनोर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढकस्य सत्ताग्रहणम् । आढकस्य सत्ताग्रहणात् प्रस्थस्य (वात्स्या०२।२।१) इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy