SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। पातमिमं प्राहुर्भिषजः कूटपालकम् इति । कारणपूर्विकां संनिपातज्वरसंप्राप्तिमाह त्रिदोषजनकैर्वातपित्तश्लेष्म्णामगेहगाः । बहिर्निरस्य कोष्ठानं रसगा ज्वरकारिणः ॥ ( भावप्र०) इति । ४ गायकास्तु तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुयंत्र संनिपातः स चेष्यते ( संगीतदा० ) इति । संनिवापः-सर्वेषामग्नीनां मेलनम् (जै० सू० वृ० अ० ६ पा० ६ सू० ३२ )। संनिहितत्वम्-१ संनिकृष्टत्वम् । २ संनिधिः । ३ सम्यक्प्रस्थापनम् । संन्यासः-१ [क] काम्यकर्मत्यागः ( कि० व० पृ० १३ )। तदुक्तं गीतायाम् काम्यानां कर्मणां न्यासं (त्यागम् ) संन्यासं कवयो विदुः (गीता० अ० १८ श्लो० २ ) इति.। [ख] वेदान्तिनस्तु सर्वसमर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा संन्यास इत्याहुः ।२ काम्यकर्मत्यागोपयोगिचतुर्थाश्रमः। चतुर्थाश्रमिणां धर्मभेदेन नामभेदा दश या तीर्थाश्रमवनारण्यगिरिपर्वतसागराः । सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृहच्छंकरविजये विद्यारण्यधृतं वाक्यम् ) इति । ३ पौराणिकाश्च चैत्रे मासि क्षत्रियादिकर्तव्यः शिवव्रतविशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् ) . ( शब्दच०.)। संपत्तिः-१ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा इत्यादी इत्याहुः। २ प्राप्तिः । ३ ऐश्वर्यं च इति काव्यज्ञा वदन्ति । अत्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथाभवनम् ( सि० च०)। .. संपूर्णा-(तिथिः) आदित्योदयवेलाया आरभ्य षष्टिनाडिका । या तिथिः सा __ तु संपूर्णा कथिता पूर्वसूरिभिः॥ (पु० चि० हे० वा० पृ० १४८)। संप्रज्ञातसमाधिः-एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः .. ( सर्व० सं० पृ० ३५६ पात०)। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy