SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । 1 यथोक्तम् । शुद्ध्यशुद्ध्योः संस्काररूपत्वेनैकपुरुषस्यैकदोभयस्थितिर्घटते । शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत् घटते । विरोधात् । अत एव शङ्खः ततः श्राद्धमशुद्धौ तु कुर्यादेकादशे तथा । कर्तुस्तात्कालिकी "शुद्धिरशुद्धः पुनरेव सः ॥ इति । अशुद्धौ चतुर्थाद इत्यर्थः । तात्कालिकी श्राद्धविधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः कल्प्यते इत्यर्थः । कर्मान्तरे त्वशुद्ध एव सः । एवम् शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः । तथात्वे अशौचसंकरोपि न स्यात् । एकस्मिञ्छुद्ध्यभावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशुद्धिरूपप्रतियोग्यन्तराभावादनुपपत्तेः । तस्माच्छुद्ध्यशुद्ध्योर्भावरूपत्वम् (श्रा०वि० ) ( शुद्धितत्व ० ) ( वाच० ) । अत्राधिकं तु पद्मपुराणे ( उत्त० ख० अ० १९ ) दृश्यम् । ३ दुर्गा देवी इति शाक्ता आहुः ( देवीपु० ) । ४ विशुद्धिशब्दवदस्यार्थोनुसंधेयः । ૨૮૬ 1 शून्यम्-१ अत्यन्ताभाववत् । यथा ज्ञानशून्यः पुरुषः इत्यादौं । २ निर्जनस्थानम् । ३ आकाशः ( शब्दच ० ) । ४ बिन्दुमात्रम् ( हेमच ० ) । ५ असंपूर्णम् । ६ ऊनम् । ७ तुच्छं च ( त्रि० अमर: ) । शृङ्गारः – १ रसविशेषः । स च स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाविशेषः । अत्र व्युत्पत्तिः शृङ्गमृच्छति इति शृङ्गारः । अत्रार्थे शृङ्गं हि मन्मथो - द्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ (सा० द० परि० ३ श्लो० १८३ ) इति । अयं शृङ्गारो द्विविधः विप्रलम्भः संभोगश्चेति (सा० द० परि० ३ श्लो० १८६ ) । अत्रो - तम् पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा । सा शृङ्गार इति ख्याता रतिक्रीडादिकारणम् ॥ इति । २ भूषणम् । ३ लवङ्गम् । ४ सिन्दूरम् । ( वा० ) । 1 -शृङ्गारणम्- रूपयौवनसंपन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तच्छृङ्गारणम् ( सर्व० सं० पृ० १७० नकु० ) । शेषः- -१ अवशेषः । स च क्वचित् कार्यम् व्यतिरेको वा । यथा पूर्ववच्छेषवत्सामान्यतो दृष्टं च ( गौ० ११११५ ) इत्यादौ शेषशब्दार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy