SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । ८७५ गम्यते ग्रामः इत्यस्य देवदत्तवृत्तिकृतिजन्यगमनजन्यफलशाली ग्रामः इत्यर्थः । तथा हि वृत्तित्वं संसर्गमर्यादया लभ्यम् । तृतीयाश्च कृतिरर्थः । जन्यत्वं संसर्गः । गमनं धात्वर्थः । जन्यत्वं संसर्गः । फलं कर्मात्मनेपदार्थः । शालित्वं संसर्गः इति । भावप्रत्यये तु देवदत्तेन सुप्यते इत्यस्य देवदत्तवृत्तिकृतिजन्यः स्वापः इत्यर्थः । भावप्रत्ययस्थले फलाभावादात्मनेपदार्थो न भासते ( तर्का ० ४ पृ० १९ ) । शाब्दबोधो द्विविधः यथार्थ: अयथार्थश्च । तत्राद्यः शाब्दप्रमा । सा च यथा नद्यास्तीरे पच फलानि सन्ति इत्यादिवाक्यार्थगोचरयथार्थज्ञानम् । अत्र फलवत्प्रवृत्ति - जननयोग्यत्वं यथार्थत्वम् इति विज्ञेयम् ( त० कौ० १ पृ० ७ ) । द्वितीयः अग्निना सिति इत्याद्ययोग्यवाक्यजन्यः शाब्दबोधः द्विविधोप शाब्दबोधः प्रत्येकं द्विविधः भेदान्वयविषयकः अभेदान्वयविषयकश्च । तत्राद्यो राज्ञः पुरुषः इत्यादिवाक्यजन्यः । द्वितीयो नीलो घटः इत्यादिवाक्यजन्यः । अत्र अभेदान्वयबोधं प्रति समानविभक्तिलिङ्गवचनकत्वं प्रयोजकम् इति सामान्यनियमो विज्ञेयः । तत्र समान - विभक्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् विरुद्धविभक्तिराहित्यं वा (ग० व्यु० १) । शिष्टं तु समानविभक्तिकत्वशब्दे दृश्यम् । अत्र विप्रतिपत्तिः । सामान्यतः शाब्दबोधश्च धात्वर्थ मुख्य विशेष्यकः प्रथमान्तार्थ मुख्यविशेष्यको वा इति । तत्र धात्वर्थमुख्यविशेष्यक एव भवति इति वैयाकरणा आहुः । तत्र प्रमाणं तु भावप्रधानमाख्यातम् इति यास्कमुनिवचनम् । नैयायिकास्तु शाब्दबोधः प्रथमान्तार्थ - मुख्यविशेष्यक एव ज्यायान् इति प्राहुः । नैयायिकानां मते तु भावप्रधानमाख्यातम् इति निरुक्तस्य भावः धात्वर्थः प्रधानं विशेष्यः यस्य आख्यातार्थस्य इति शाब्दिकादिसंमतं बहुव्रीहिमनादृत्य भावस्य प्रधानम् इति षष्ठीतत्पुरुष आश्रयते । लाघवात् । तत्र धात्वर्थ मुख्य विशेष्यकशाब्दबोधाङ्गीकर्तृबैयाकरणमते तादृशबोधोपपादकमुख्योदाहरणानि च चैत्रेण सुप्यते पश्य मृगो धावति पचति भवति शृणु मेघो गर्जति इत्यादीनि । अत्र चैत्रेण सुप्यते इत्यादौ चैत्रकर्तृकः स्वापः इति क्रियामुख्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy