SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। भीमानदी स्वसमवायिसंयुक्तसंयोगेनाल्पतरदेशसंयोगवती इति ज्ञानेन दैशिकमपरत्वमुत्पद्यते । अधिकं तु अन्यत्र (वै० उ०७।२।२१) द्रष्टव्यम्। कालकृतत्वं च स्वसमवायिसंयुक्तसंयोगसंबन्धेन रविक्रियाप्रकारककालविषयकज्ञानजन्यत्वम् ( वाक्य ) । अल्पतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् अपरत्वोत्पत्तिः ( सि० च० १।१८) । दिकृतमपरत्वमिदमस्मात्संनिकृष्टम् इत्यपेक्षाबुद्ध्या जन्यते ( दि. १)। अवलोकनीयात्र दिक्शब्दव्याख्या । कालकृतमपरत्वं तु अयमस्मादल्पतरकालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते (दि. १) । अवलोकनीयात्र कालशब्दव्याख्या । अत्र नव्या आहुः-अल्पतरसूर्यपरिस्पन्दान्तरितजन्यत्वरूपकनिष्ठत्व-अल्पसंयोगान्तरितत्वरूपसंनिकृष्टत्वाभ्यां कालिकदैशिकापरत्वव्यवहारोपपत्ते परत्वस्य गुणान्तरत्वम् इति (दि० गु० पृ० २०९ )। अपराजिता-मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप । अपराजितेति विख्याता महापातकनाशिनी ॥ (पु० चि० पृ० १०४)। अपराह्नः-पञ्चधा विभक्तेहनि चतुर्थो भागः । २ द्विधा विभक्तेहन्युत्तरो भागः ( मिताक्षरा अ० २ श्लो० ९७ )। अपरिग्रहः—(व्रतम् ) सर्वभावेषु मूर्छायास्यागः स्वादपरिग्रहः ( सर्व० सं० पृ० ६६ आईत०)। अपर्वगः-१ अस्यार्थो निःश्रेयसवदनुसंधेयः । आत्यन्तिकी दुःखनिवृत्तिरपवर्गः । निवृत्तेरात्यन्तिकत्वं नाम निवर्त्यसजातीयस्य पुनस्तत्रानुत्पादः ( सर्व० सं० पृ० २४६ अक्षपा० ) । २ फलप्राप्तिः । यथा अपवर्गे तृतीया ( पाणि० सू० २।३।६ ) इत्यादौ ।। अपवादः-१ बाधनसाधनं वस्तुमात्रम् । २ विशेषशास्त्रम् । यथा मा हिंस्यात्सर्वा भूतानीत्युत्सर्गस्य वायव्यश्वेतमालभेत इति शास्त्रमपवादः। ३ मिथ्याभूतपदार्थनिवारणार्थमुपदेशविशेष इति मायावादिन आहुः । ४ मिथ्यावाद इति सांख्याः । ५ निन्दा निरासनं वेति काव्यज्ञाः । (वाच० )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy