SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । त्वादीनामभावः सुलभः ( दीधि० २ ) । वह्निमान् धूमादित्यादौ तु वह्नित्वेन घटाभावः सुलभः इति विज्ञेयम् इदमपि च लक्षणं दीधितिकृता स्वयं कृतम् इति द्वितीयं स्वलक्षणम् इत्युच्यते इति बोध्यम् । चक्रवर्तिकृतं लक्षणत्रयं चेत्थम् । (१०) व्याप्यवृत्तेर्हेतुसमानाधि - करणस्य साध्याभावस्य प्रतियोगिताया अनवच्छेदकं यत् साध्यतावच्छेदकम् तदवच्छिन्नसामानाधिकरण्यम् । यादृशप्रतियोगितासंबन्धावच्छिन्नप्रकारतावच्छेदकयत्किंचिद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतः तदनवच्छेदकावच्छिन्न सामानाधिकरण्यम् इति पर्यवसितोर्थः ( ग० चतु० चक्र० )। (११) हेतुसमानाधिकरणस्य व्याप्यवृत्तेरभावस्य प्रतियोगितायाः सामानाधिकरण्येनानवच्छेदकं यत् साध्यतावच्छेदकम् तदवच्छिन्न सामानाधिकरण्यम् । ( १२ ) हेतुसमानाधिकरणस्य प्रतियोगिव्यधिकरणस्याभावस्य प्रतियोगितायाः सामानाधिकरण्येनानवच्छेदकं यत् साध्यतावच्छेदकम् तदवच्छिन्नसामानाधिकरण्यं वा । एतानि त्रीणि लक्षणानि चक्रवर्तिलक्षणानि इत्युच्यन्ते ( ग० चतु० ) | ( १३ ) साध्यतावच्छेदकविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्वसमानाधिकरणसाध्याभात्रत्वकत्वम् । साध्यतावच्छेदकविशिष्टसाध्य सामानाधिकरण्यानतिरिक्तवृत्ति यद्धर्मविशिष्टसमानाधिकरणसाध्याभावत्वम् तद्धर्मवत्त्वम् इति समुदितोर्थः ( ग० चतु० पृ० ३० ) | ( १४ ) यत्समानाधि - करणसाध्याभावप्रमायां साध्यवत्ताज्ञान प्रतिबन्धकत्वं नास्ति तत्त्वम् । एते च द्वे प्रगल्भलक्षणे इत्युच्येते ( ग० चतु० ) | ( १५ ) साध्याभाववति यद्वृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वम् । यन्निष्टसाध्याभाववद्वृत्तित्वत्व विशिष्टनिरूपितविषयितासामान्ये प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वाभावः तत्त्वम् इति समुदितार्थ : ( ग० चतु० पृ० ३१ ) । इदं च विशारदलक्षणम् इत्युच्यते । अथ मिश्रकृतं लक्षणत्रयं प्रदर्श्यते । (१६) यावन्तः साध्याभावाः प्रत्येकं तत्तत्सजातीया ये तत्तदधिकरणनिरूपितवृत्तित्वाभावाः तद्वत्त्वम् । स्वाश्रयनिष्ठ भेदप्रतियोगितावच्छेदकतावच्छेदकसाध्यतावच्छेदकावच्छिन्न व्यापक ८३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy