SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। युक्ते उदाहरणे स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टं तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमुपसंह्रियते । उपसंह्रियतेनेनेति चोपसंहारो वेदितव्यः (वात्स्या० १।१।३८ )। [ख] तथेति साध्यस्योपसंहारः । यथा पर्वतो वह्निमान्धमादित्यत्र वहिव्याप्यधूमवानयम् इति वा तथा चायम् इति वोपन्यासः (गौ० वृ० १।१।३८)। अन्वय्युपनयलक्षणं चान्वय्युपनयत्वमेव । तच्च साध्यव्याप्यविशिष्टपक्षबोधकावयवत्वम् ( चि० अव० )। अन्ववसर्ग:-कामचारानुज्ञानम् । यथेष्टं क्रियताम् इत्येवंरूपानुज्ञेत्यर्थः । यथा अपि सिश्च अपि स्तुहीत्यादौ यथेष्टं कुर्याः इत्याद्यर्थोपिना द्योत्यते न तु कुत्राप्यनुज्ञया प्रतिरोधः क्रियत इति ( वाच० )। अन्वाख्यानम्-तात्पर्यावधारणार्थ प्रतिपादनम् । यथा वस्त्वन्वाख्यानं क्रियान्वाख्यानमित्यादौ (वा० च० )। अन्वाचयः—उद्देश्यसिद्ध्यानुद्देश्यसिद्ध्यर्थोपदेशः । यथा भिक्षां गच्छ यदि गां पश्येस्तां चानयेत्यादौ । अत्र भिक्षायामेवोद्देशः न तु गवानयने । तसिद्धथुत्तरं गवानयनमनुद्दिष्टमपि साध्यतया निर्दिष्टम् इति (वाच०)। प्रधानगुणभावेन यत्र क्रियान्वयतात्पर्य सोन्वाचयः ( त० प्र० ख० ४ पृ० ५२ )। क्रियाभेदे त्वन्वाचयः । यथा एधानाहर्तुं वनं व्रज शाकमप्यानेष्यसि इति । अन्वादेशः-[क] पूर्वोपात्तस्य किंचित्कार्यान्तरं विधातुं पुनरुपदेशः । यथा अनेन व्याकरणमधीतम् न्यायमेनं पाठय इति न्यायपाठनार्थ पुनरुपदेशः (सि० कौ० ) ( वाच० )। [ख] कथितकथनम् (वाच०)। अन्वाधानम्-इध्माबर्हिःसंपादनम् अग्निपरिग्रहः उपस्तरणं चेत्येवमादि (पु० चि० पृ० ३१८ )। अन्वाधेयम्-विवाहात्परतो यच्च लब्धं भर्तृकुलास्त्रिया। अन्वाधेयं तु . तद्रव्यं लब्धं पितृकुलात्तथा ॥ ( मिताक्षरा अ० २ श्लो० १४४ )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy