________________
न्यायकोशः।
अधिकं तु गारुडे ( अ० २०९ ) द्रष्टव्यम् । २ मायावादिनस्तु स्थूला सृष्टिः ( रत्नप्रभा )। यथा नामरूपे व्याकरवाणि ( श्रुतिः ) इत्यादौ
व्याकरणम् इत्याहुः। व्याख्यानम्-[क] विवरणम् ( हलायु.)। [ख] अप्रतिपत्त्यादि
निवारणप्रयोजनकं तत्समानार्थकपदान्तरेण विस्तरेण तदर्थकथनम् । यथा न्याये तत्त्वचिन्तामणेर्दीधितिर्मथुरानाथी च व्याख्यानम् । वेदान्ते तु ब्रह्मसूत्रार्थप्रतिपादकानुव्याख्यानस्य न्यायसुंधा व्याख्यानम् । [ग] पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपेषु समाधानं व्याख्यानं पञ्चलक्षणम् ।। (पराशरपु० अ० १८)। आक्षेपोथ समाधानं व्याख्यानं षड्विधं मतम् इत्यन्यत्र पाठान्तरम् । सर्वत्र व्याख्याने बीजं तु अप्रतिपत्तिः
विप्रतिपत्तिः अन्यथाप्रतिपत्तिश्च इत्यनुसंधेयम् ।। व्याघातः-१ असंबद्धार्थकं वाक्यम् । तद्यथा यावज्जीवमहं मौनी ब्रह्म
चारी च मे पिता । माता तु मम वन्ध्यासीदपुत्रश्च पितामहः ॥ इति वाक्यम् । २ प्रतिबन्धः । यथा व्याघातावधिराशङ्का (कुमु०) इत्यादौ । ३ तर्कविशेषः इति प्राञ्चो नैयायिका आहुः । ४ आलंकारिकास्तु अर्थालंकारविशेषः इत्याहुः। ५ मौहूर्तिकाश्च विष्कम्भादिसप्तविंशतियोगमध्ये त्रयोदशो ( १३ ) योगविशेष इत्याहुः । ६ अन्तरायः ।
७ प्रहारश्च इति काव्यज्ञा आहुः। व्याधिः-दोषत्रयवैषम्यनिमित्तो ज्वरादिः ( सर्व० सं० पृ० ३५५ पात० )। व्यानः- ( प्राणवायुः) [क] नाडीमुखेषु वितननाढ्यानः (दि०
१२ ) ( सि० च० )। [ख] सर्वशरीरव्यापकः प्राणान्तर्गतो वायुविशेषः । यथा व्यानः सर्वशरीरगः इत्यादौ । [ग] विष्वग्गमनवान् वायुान इत्यभिधीयते । अत्रोक्तम् व्यानो हि व्यानयत्यन्नं सर्वव्याधिप्रकोपनः । महारजतसुप्रख्यो हानोपादानकारणम् । स चाक्षिकर्णयोमध्ये कट्यां वै गुल्फयोरपि । घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र
निरन्तरम् ॥ स्कन्दयत्यधरं वकं गात्रनेत्रे प्रकोपनः ( पदार्थादर्श ) । (वाच० ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org