________________
न्यायकोशः। १।१।३५ )। यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ गन्ध
वत्त्वात् इति शब्दो व्यतिरेकिहेतुः । व्यतिरेक्युदाहरणम्— ( अवयवः ) [क] तद्विपर्ययाद्वा विपरीतम्
(गौ० १११।३७ )। तदर्थश्च साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात् (गौ० वृ० १११।३७ ) इति । व्यतिरेक्युदाहरणत्वं च साध्यसाधनाभावसंबन्धबोधकत्वम् ( चि० अव० २ पृ० ८०)। अथ वा व्यतिरेकव्याप्तिबोधकत्वम् ( दीधि० २ पृ० १७७ ) । अत्र भाष्यम् । साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यमात्मादि । सोयमात्मादिदृष्टान्तः साध्यवैधादनुत्पत्तिधर्मकत्वादतद्धर्मभावी । योसौ साध्यस्य धर्मः अनित्यत्वम् स तस्मिन्न भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवति इत्युपलभमानः शब्दे विपर्ययमनुमिनोति उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्दः इति ( वात्स्या० १।१।३७ ) । [ख] साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकोदाहरणम् । यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यन्नैवं तन्नैवं यथा घटः इति ( गौ० वृ० १।११३७ )।
यन्नैवमित्यस्यार्थस्तु यन्न सात्मकं तन्न प्राणादिमत् इति । व्यतिरेक्युपनयः-(अवयवः) उदाहरणापेक्षो न तथेति साध्यस्योप
संहारः (गौ० १।१।३८ )। साध्यवैधर्म्ययुक्ते उदाहरणे आत्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम् न च तथा शब्दः इत्यनुत्पत्तिधर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंह्रियते । उपसंह्रियतेनेनेति चोपसंहारी :वेदितव्यः ( वात्स्या० १।११३८ ) इति । साध्यस्य पक्षस्य उदाहरणापेक्ष उदाहरणानुसारी य उपसंहार उपन्यासः । प्रकृतोदाहरणोपदर्शितव्यतिरेकव्याप्तिविशिष्टहेतुविशिष्टपक्षबोधजनको न्यायावयवः इति तात्पर्यम् । व्यतिरेक्युपनयत्वं च साध्याभावव्यापकीभूताभावप्रतियोगिमत्पक्षबोधकावयवत्वम् ( चि० अवय० २ पृ० ८१ )। यथा पर्वतो वह्निमान्धूमादित्यादौ वह्नयभावव्यापकीभूताभावप्रतियोगिधमवांश्वायम् इति न तथायम् इति वा वाक्यमुपनयः (गौ० वृ० १।१।३८)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org