SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ७९५ विसर्गः-१ त्यागः । २ शाब्दिकास्तु विसर्जनीयाख्यो वर्णविशेष इत्याहुः । ३ सूर्यस्यायनविशेषः इति ज्योतिर्विद आहुः । ४ प्रलयः । ५ विशेष सृष्टिश्चेति पौराणिका आहुः। विस्तरः-पश्चानां पदार्थानां प्रमाणतः पश्चाभिधानम् ( सर्व० सं० पृ० १७१ नकु० )। विहितत्वम्-[क] इष्टसाधनत्वेन वेदबोधितत्वम् ( वाक्य० गु० पृ० २१)। यथा स्वर्गकामो यजेत इत्यादौ यज्ञादिकर्मणो विहितत्वम् । यथा वा नैयायिकानां मते अहरहः संध्यामुपासीत इत्यादौ संध्योपासनाया विहितत्वम् । एतन्मते संध्योपासनाया दुरितनिवृत्त्यादि फलमङ्गीकृतम् इति विहितत्वं संगच्छते । अत्र वेद इत्युपलक्षणम् । तेन वेदमूलकस्मृत्याद्यपि संगृह्यते । [ख] बलवदनिष्टाननुबन्धित्वेन वेदबोधितत्वम् इति मीमांसका आहुः (मू० म० १ )। एतन्मते नित्यकर्मणां फलाभावेनेष्टासंभवेपि बलवदनिष्टाजनकत्वरूपलक्षणदलस्य समन्वयो भवति । शिष्टं तु विधिशब्दव्याख्याने द्रष्टव्यम् । [ग] धर्मापादकत्वम् इति केचिदाहुः। वीतम्-१ अनुमानविशेषः । अन्वयमुखेन प्रवर्तमानमनुमानम् इत्यर्थः (सांख्य० कौ० कारि० ५ पृ० १०)। २ युद्धासमथं सैन्यम् इति नीतिशास्त्रज्ञा आहुः । ३ शान्तम् । ४ गतं चेति काव्यज्ञा आहुः।। वीप्सा-[क] सकलधर्मिप्रत्यायनेच्छा । यथा-कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । यद्यत्पा५ प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ( मालतीमाध० ११३ ) इत्यादौ यत्पदे वीप्सा ( ग० २ अवय० हेतु० पृ० ७४ ) ( चि० २ अव० पृ० ८१ )। यथा वायां यां प्रियः प्रेक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव ( माघ० स० ३ श्लो० १६) इत्यादौ यत्तत्पदयोप्सिा।[ख] व्याप्तेापकत्वस्य वा बोधनेच्छा । यथा यो यो धूमवान्स वह्निमान् इत्यत्र यत्पदे वीप्सा । अत्रेदं बोध्यम् । नित्यवीप्सयोः ( पाणि० ८।१।४ ) इत्यनेन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy