SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । 1 विवादः – १ विरुद्धो वादः । २ कलहः । अत्रोदाह्रियते ऋणादिदायक लहे द्वयोर्बहुतरस्य वा । विवादो व्यवहारश्च इति स्मृतिः । ३ विप्रतिपत्तिः । विवाहः -- १ भार्यात्वसंपादकं कर्म । यथा अविलुतब्रह्मचर्यो लक्षण्यां स्त्रियमुन् । अनन्यपूर्विका कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।। (याज्ञ० अ० १ श्लो० ५२-५३ ) इत्यादौ वहधात्वर्थः । अत्रानन्य पूर्विकामित्यनेन स्त्री पुनर्विवाहो निषिद्धः इति गम्यते । तथा च श्रुतिरपि तस्मान्नैका द्वौ पती विन्दते इति । तस्मादेकस्य बह्वयो जाया भवन्ति नैकस्यै बहवः सह पतयः इति च । शिष्टं तु नियोगशब्दव्याख्याने विधवाशब्दव्याख्याने च संपादितम् तत्र दृश्यम् । चरमसंस्कार: विजातीयसंस्कारो वा विवाहः इत्यन्ये व्यनैयायिका आहुः । अत्र चरमत्वं च शास्त्रविहित संस्कारान्तिमत्वम् । संस्कारप्रागभावासह चरितत्वम् इति केचिदाहुः । द्वितीय विवाहस्य संस्कारत्वाभावात् तत्प्रागभावसत्त्वेप्याद्यविवाहे चरमत्वाक्षतिः (वाच० ) । सप्तपदीसमापनमेव इति तु वयं ब्रूमः अष्टौ विवाहा: ब्राह्मः देवः आर्षः प्राजापत्यः आसुरः गान्धर्वः राक्षसः पैशाचश्चेति (याज्ञ० अ० १ श्लो० ० ५८-६१ ) । तथा चोक्तं मनुना ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोधमः ॥ ( मनु० ३।२१ ) इति । अत्र विवाहप्राशस्त्यं तत्तद्विवाहफलादिकं च मनुयाज्ञवल्क्य - स्मृत्यादौ दृश्यम् । २ येन ज्ञानेन ममेयं भार्या ममायं पतिः इति व्यवहारो भवति तादृशं ज्ञानम् इति वा विवाहशब्दार्थः । तादृशं ज्ञानं तु संस्कारादिनोत्पद्यते । तच्च संबन्धविशेषेणोभयनिष्ठम् | अत्रेदं विचार्यम् । भार्यात्वसंपादकं ज्ञानम् । इत्यत्र भार्यात्वस्योदलक्षणतया निवेशः । तेन नान्योन्याश्रयः इति । 1 A) १७८ विवीतः --- प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगतो भूप्रदेश: ( मिताक्षरा व्य० W लो० ० १६० ) । विवृतिः - १ विवरणम् । २ विस्तारः ( मेदिनी ० ) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy