SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७७२ न्यायकोशः। इति स्मृतः ॥ ( सा० द० परि० ६ श्लो० ७९ ) इति । ५ तस्य चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुखत्वमानन्दैकघनत्वं माहेश्चर्यमिति पर्यायः । स एव ह्ययं भावात्मा विमर्शः ( सर्व० सं० पृ० १९६ प्रत्यभि० )। विमल:-चतुष्पञ्चाशदधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) । विमलीकरणम्-संचिन्त्य मनसा मत्रं ज्योतिर्मत्रेण निर्दहेत् । मत्रे मल त्रयं मन्त्री विमलीकरणं हि तत् ॥ (सर्व० सं० पृ० ३७० पात०)। विमोकः-कामानभिष्वङ्गः ( सर्व० सं० पृ० १२४ रामानु० )। विमोक्षः-१ निःश्रेयसशब्दवदस्यार्थीनुसंधेयः । यथा निखिललोकविमोक्ष मुख्योपायम् (न्या० म० १ ) इत्यादौ ( त प्र० १ )। २ मोचनम्। विरहः-१ अत्यन्ताभावः । यथा अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ( भा० प० २ श्लो० ७०) इत्यादौ । यथा वा अभावविरहात्मत्वं वस्तुनः प्रतियोगिता (कु० ३।१) इत्यादौ । २ शृङ्गाररसस्य विप्रलम्भाख्योवस्थाविशेषः इति रसिकजना वदन्ति । विरामः-१ [क] प्रागभावसाधारणकृत्यभावस्यनुकुलो व्यापारः । यथा धर्माद्विरमतीत्यादौ विरमतेरर्थः । स च व्यापारोत्र धर्मविषयोपेक्षाविशेष एव । [ख ] जीवनकालावच्छिन्नः कृत्यसमानाधिकरणकृतिध्वंसः इति केचिदाहुः ( ल० म० सुबर्थ० कार० ५ पृ० १०८ ) । २ वर्णाभावः इति शाब्दिका आहुः । अत्र सूत्रम् विरामोवसानम् ( पाणि० १।४।११० ) इति । ३ विरतिः। ४ निवृत्तिश्च इति काव्यज्ञा आहुः । विरुद्धः-( हेत्वाभासः) [क ] सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः (गौ० १।२।६ )। यत्र वक्ष्यमाणो विरोधः वक्ष्यमाणं विरुद्धत्वं चास्ति स विरुद्धः इति परमार्थः (त० भा० ) ( वाक्य० )। तार्किकरक्षायां तु विरुद्धः स्याद्वर्तमानो हेतुः पक्षविपक्षयोः ( ता० र० श्लो० ८२ ) इत्युक्तम् । अत्र भाष्यम् । तं विरुणद्धीति तद्विरोधी । अभ्युपेतं सिद्धान्तं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy