SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। विजया-( सप्तमी ) शुक्लपक्षस्य सप्तम्यां रविवारो भवेद्यदि । सप्तमी विजया ज्ञेया तत्र दत्तं महाफलम् ॥ (पु० चि० पृ० १०५ )। विजातीयम्-१ लक्ष्यतावच्छेदकसाक्षाद्व्यापकजात्यनवच्छिन्नम् । यथा गोविजातीयो घटः । तथा हि गोर्लक्षणस्य सानादिमत्त्वस्य विजातीयव्यावृत्तिप्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षाद्व्यापकं पशुत्वम् । तदनवच्छिन्नो घटो भवति इति विज्ञेयम् (प्र० च० पृ० ३ )। २ तद्वृत्त्यसाधारणविशेषधर्मशून्यस्तद्विजातीयः इति तु वयं ब्रूमः। विज्ञानम्-१ बुद्धिशब्दवदस्यार्थीनुसंधेयः । पौराणिकाश्च चतुर्दशविद्या धारणम् इत्याहुः । तदुक्तम् चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते ॥ कूर्मपु० अ० १४) ( वाच० ) इति । ३ मायावादिनस्तु अविद्यावृत्तिविशेषः आत्मैक्यज्ञानं च विज्ञानम् इत्यङ्गीचक्रुः। ४ काव्यज्ञास्तु शिल्पादिज्ञानम् इत्याहुः । ५ विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् प्रवृत्तिविज्ञानम् आलयविज्ञानं च । तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६ निरवशेषशास्त्रविषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली०)। विज्ञानस्कन्धः-आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहः ( सर्व० सं० पृ० ४० बौ० )। विज्ञानाकलः-विज्ञानयोगसंन्यासोंगेन वा कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकलः ( सर्व० सं० पृ० १८२ शै० )। वितण्डा—(कथा) [क] स प्रतिपक्षस्थापनाहीनो वितण्डा ( गौ० १।२।३ )। स जल्पो वितण्डा भवति । किंविशेषणः । प्रतिपक्षस्थापनया हीनः । यो तौ समानाधिकरणौ विरुद्धौ धौ पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy