SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ७३३ यथा पुराणादिपाठको वाचको भवति। अत्रोच्यते वाचकः पूजितो येन प्रसन्नास्तस्य देवताः (पुरा० ) इति । अन्यच्च ब्राह्मणं वाचकं विद्यानान्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥ (ति० त० ) ( वाच० ) इति। वाचनिकः । वाGि -१ ( नमस्कारः ) उत्कृष्टत्वादिबुद्ध्या प्रयुक्तो नमःपदादि घटितः शब्दः । यथा वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः ( मणिमञ्ज० ) इति । यथा वा हरये नम इत्यादौ नोत्तरमकारविशेषादिचिनिकः ( मू० म० मङ्ग० १ पृ० १०५ ) । लक्षणं च वाचनिकनमस्कारत्वम् । तच्च नत्वमत्वादिव्याप्या नाना जातयः । नव्यास्तु शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेषः इत्याहुः (मू० म० १ पृ० १०५ ) । २ धर्मज्ञास्तु वचननिष्पादितं पापादि इत्याहुः । ३ वाक्यारम्भः इति काव्यज्ञा आहुः ( वाच० )। वाच्यः-१ [क] वाचकबोध्योर्थः । शक्त्या बोध्यः इत्यर्थः । स एव मुख्यार्थः इत्युच्यते । यथा गवादिर्गोपदवाच्यः (ग० श० पृ० ३ )। अत्रोच्यते न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचकभावोयमक्षपादादिशब्दवत् ॥ बिभीतकेप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥ (व० त० भट्टवा० ) ( वाच०) इति । [ख] मीमांसकास्तु यद्यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्यम् । यथा गामानय इत्यस्मिन्वाक्ये गोशब्दस्य गोत्वं वाच्यम् इत्याहुः ( लौ० भा० पृ० ६ )। २ धर्मज्ञास्तु दूष्यः । यथा परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ( माघ० स० ३ श्लो० ५८ ) इत्यादी इत्याहुः। वाजपेयम्-वाजमन्नम् । तच्च पेयं सुराद्रव्यम् (जै० न्या० अ० १ .. पा० ४ अधि० ३)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy