SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। चोक्तम् । बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः ॥ इति । अन्यच्च अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ( मनु० अ० ५ श्लो० ५१ ) इति । वधविषये अधिकप्रपश्चस्तु हिंसाशब्द व्याख्यानावसरे प्रदर्शयिष्यत इति तत्र द्रष्टव्यः । वनम्-१ वृक्षसमुदायः । यथा सुवनी संप्रवदत्पिकापि का ( नैष० ) इत्यादौ । यथा वा श्यामायमानानि वनानि पश्यन् ( रघु० स० २ श्लो० १७) इत्यादौ । अत्र वनत्वं च तत्तदृक्षादिविषयकज्ञानविषयत्वम् ( त० प्र० ख० ४ पृ० ५०)। २ जलम् । ३ निवासः। ४ प्रस्तरणं चेति काव्यज्ञा आहुः (हेमच०)। वरणम् – सत्कारपुरःसरम् अग्निर्होता इत्यादिप्रार्थना वरणम् (जै० न्या० अ० १० पा० २ अधि० ११)। वराङ्ग:-चतुर्विंशत्यधिकशतत्रयम् ( अतलशब्दे दृश्यम् )। वर्णः-१ ( गुणः ) शुक्लादिरूपम् । यथा वर्णः शुक्लो रसस्पर्शी जले मधुर शीतलौ ( भा० प० श्लो० ४० ) इत्यादौ । २ ब्राह्मणादिजातिः । यथा चातुर्वण्यं मया सृष्टम् ( गीता० अ० ४ श्लो० १३ ) इत्यादौ ब्राह्मणक्षत्रियवैश्यशूद्रभेदेन चतुर्विधा इति पौराणिका आहुः। अत्र श्रुतिः ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत इति ( यजुः-३१।११ )। तेषां पूर्वः पूर्वो जन्मतः श्रेयान् ( आपस्तम्ब-धर्मसू० १।१।१।४ )। ब्राह्मणस्य श्रेष्ठये कारणमुक्तं मनुना यथा ऊवं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान्मध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ उत्तमाङ्गोद्भवाज्यैष्ठयाद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः॥ ( मनु० अ०१ श्लो० ९२-९३ ) ( १०।३) इति । वर्णधर्मश्च नित्यं मद्यं ब्राह्मणो वर्जयेत् इत्यादिः ( मिता० १।१ पृ० १ )। ब्राह्मणादिवर्णानां कर्माणि तु शमदमतपोज्ञानादि ब्राह्मणस्य शौर्य प्रजापालनज्ञानादि क्षत्रियस्य कृषिगोरक्षवाणिज्यं वैश्यस्य परिचर्या शूद्रस्य (गीता० अ० १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy