SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ७१५ वह्निव्याप्यधूमवान्पर्वतो वह्निमान् इत्यनुमितिर्भवति न तु केवलः पर्वतो वह्निमान् इति । इदं चोदयनाचार्याणां मतम् । तन्मते सर्वत्र तादृशहेतुविशिष्टः पक्षः साध्यवान् इत्याकारैवानुमितिर्भवति इति विज्ञेयम् । अयं भावः । आचार्याणां मते हेतोः सर्वत्रैव धर्मितावच्छेदकतया भानात् पर्वतत्वाद्यवच्छेदेन हेतुमत्ताज्ञानस्थलेपि ( वह्निव्याप्यधूमवान्पर्वतः इति परामर्शेपि ) वह्निव्याप्यधूमविशिष्टपर्वतो वह्निमान् इत्याकारिकैवानुमिति भवति इति ( ग० २ सामान्यनि० पृ० ४ )। लिट-(तिङ् ) [क] द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वयबोधने । या न योग्या तादृशी तिङ् लिट्पदेनाभिधीयते ॥ यथा जघान जनतुरित्यादौ लिट् । अत्र द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयं प्रत्यया बोधयन्ति इति तत्र लक्षणसमन्वयो बोध्यः । अशिश्रियत् अदुद्रुवत् इत्यादौ द्विरुक्तस्येव अपाक्षीत् इत्यादौ द्विरुक्तान्यस्यापि धातोरर्थे स्वार्थान्वयं लुङादयो बोधयन्ति । अतो न लुङादावतिप्रसङ्गः। पिपक्षति पापच्यते इत्यादौ च सनादयस्तादृशा द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयबोधका अपि न तिङः इति न तत्रातिप्रसङ्गः। अत्र प्रकृत्यर्थे वर्तमानत्वाद्यनाकाङ्क्षत्व इति विशेषणं देयम् । तेन पचे पचावहे पचावः इत्यादौ न लडाद्यतिप्रसङ्गः। [ख] द्विरुक्तस्य यजेरर्थे चकास्तेराम् युतस्य वा । या स्वार्थस्यान्वये हेतुः सा वा लिट् कथ्यते बुधैः ॥ जुहोतीत्यादौ द्विरुक्तस्य धातोरर्थे स्वार्थबोधकोपि लडादिः न यजेरर्थे इति न तत्र लडादावतिप्रसङ्गः। यथा काशांचके लोलूयामास ईक्षांबभूवेत्यादौ मनश्चचाल सुरभिभाग आजगाम 'इत्यादौ च लिट् । अत्र अतीतः काल इव धात्वर्थनिष्ठं परोक्षत्वमपि लिटोर्थः । तच्च परोक्षत्वम् अतीन्द्रियत्वम् । तेन अतीत- । कालवृत्त्यतीन्द्रियचलनवन्मनः इत्याकारकस्तत्र बोधः ( श० प्र० श्लो० १०५ टी० पृ० १६२ ) । अत्र चैत्रश्चारु पपाच व्यातेने किरणावलीमुदयनः इत्यादौ लिटि लक्षणसमन्वयश्चिन्त्यः । चिन्ताबीजं तु कलिङ्गे दृष्टोसि नाहं कलिङ्गान् जगाम इत्यत्रेव पूर्वोक्तस्थलयोरपि लिट्साधुत्वोपपादकं सूत्रान्तरमेव इति (ग० व्यु० ल० पृ० १३९ )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy