________________
न्यायकोशः।
७०७ लाक्षणिकः-१ लक्षणया अर्थबोधकः शब्दः । यथा गङ्गायां घोषः प्रवसतीत्यादौ गङ्गाशब्दः । अत्राधिकं तु लक्षकशब्दव्याख्याने दृष्टव्यम् ।
२ लक्षणयुक्तः। लाघवज्ञानसहकृतानुमितिः- ( अनुमितिः ) सामान्यधर्मावच्छिन्नस्य
साध्यत्वे सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शा द्विशेषधर्मे लाघवज्ञानसहकृताज्जायमाना विशेषधर्मावच्छिन्नविधेयकानुमितिः। यथा पर्वते धूमेन शुद्धवहिसाधनेपि पर्वतो महानसीयवह्निमान इत्यनुमितिः। अत्रेदं बोध्यम् । वह्निव्याप्यधूमवान् पर्वतः इति परामर्शादपि महानसीयवह्नौ लाघवम् इति लाघवज्ञानबलान्महानसीयवह्नित्यादिना वह्नयनुमितिः पर्वतो महानसीयवह्निमान इति जायते (त० प्र० ख० ४ पृ० १३० ) इति । अस्मद्गुरुचरणास्तु वहेर्महानसीयत्वे लाघवम् इति लाघवज्ञानसत्त्वे वह्निव्याप्यधूमवान्पर्वतः इति परामर्शात् पर्वतो महानसीयवह्निमान इत्यनुमितिर्जायते इति प्राहुः। एवम् इतरबाधग्रहसहकारसत्त्वेप्यनुमितिर्भवति ।
सा च इतरबाधग्रहसहकृतानुमितिशब्दे दृश्या। लाघवम्-१ लघुत्वशब्दवदस्यार्थीनुसंधेयः। २ तर्कविशेषविषयः इति
प्राश्च आहुः ( सर्व० सं० पृ० २३९ अक्ष०)। ३ आरोग्यम् इति भिषज आहुः ( राजनि० )। लाभः-१ स्वत्वावच्छिन्नो व्यापारः । यथा धनं लभते प्राप्नोति इत्यादौ
धात्वर्थः । अत्र धात्वर्थनिविष्टे स्वत्वे धनादेराधेयत्वेनान्वयः ( श० प्र० श्लो० ७२ टी० पृ० ९७) । २ विधीयमानमुपायफलं लाभः ( सर्व०
सं० पृ० १६२ नकु० )। लिङ्-(तिङ्) विध्यायन्यतमस्यान्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना तिङ् लिङ्कुच्यते । पटमानय इत्यादौ सप्तमं पदं गृह्णाति इत्यादौ च विधि बोधयन्त्यावपि लोट्लटौ न ताभ्यां भिन्ने इति यष्टव्यम् देयम इत्यादौ तु तव्यादिकं कार्यत्वादिकं बोधयदपि न तिङ् इति न लोट्लटोस्तव्यादौ चातिप्रसङ्गः। भावित्वाद्यप्रत्यायकत्वेन विशेषणाञ्च पच्यात् इत्यादावाशीलिङ्गि न प्रसङ्गः (श० प्र० श्लो० १०० टी० पृ० १४६-१४७ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org