SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। - गृहम् इति लक्षणज्ञाने सति इदमेव देवदत्तगृहम् नान्यत् इत्यवधारण ज्ञानं जायते ( प्र० प० पृ० २) इति । ३ स्वरूपम् । यथा व्याप्तेलक्षणमाह यत्रेति (त० दी० २ पृ० २० ) इत्यादौ । यथा वा जीवलक्षणमाह ( त० दी० ) इत्यादौ (नील० १ पृ० ११ )। यथा वा षटलक्षणं वस्तु घटलक्षणं द्रव्यम् परमाणुलक्षणा नित्यपृथिवी इत्यादी च लक्षणशब्दस्यार्थः स्वरूपम् । ४ प्रतिपाद्यो विषयः । यथा जैमिनिदिशलक्षणीं प्रणिनाय इत्यादौ । ५ आलोचनम् । यथा विलक्षणमित्यादौ लक्षणशब्दस्यार्थः । तदर्थश्च हेतुशून्या स्थितिर्विलक्षणम् ( अमरटी० ३।२।२ )। ६ अन्यदीयधर्मराहित्यम् । यथा विलक्षणं वस्त्विदम् इत्यादी लक्षणशब्दस्यार्थः । यथा वा बौद्धमते स्वलक्षणं स्वलक्षणम् इति भावनाविषयो लक्षणपदार्थः । ७ शाब्दिकास्तु शब्दसाधुताप्रतिपादकं. प्रमाणम् । यथा व्याकरणादिसूत्रं लक्षणम् इत्याहुः । ८ व्यवहारज्ञास्तु .. व्यवहारोपयोगि नाम इत्याहुः । ९ चिह्नम् इति काव्यज्ञा वदन्ति । लक्षणा -(वृत्तिः) [क] न्यायमते स्वशक्यसंबन्धः (भा० ५० श्लो०८३) (त० दी० ख० ४ ) ( न्या० बो० ४ ) ( न्या० म० ४ पृ० १०) - (वाक्य० )। तदर्थस्तु स्वं लाक्षणिकं पदम् गङ्गापदम् । तस्य शक्यः - प्रवाहः । तत्संबन्धः संयोगः इति (त० प्र० ४ पृ० ३५ )। स च संयोगसमवायादिर्यथायथं ग्राह्यः । स्वशक्यसंबन्धश्च शब्दनिरूपितोर्थनिष्ठः शाब्दबोधप्रयोजकः शब्दार्थयोः संबन्धः। मीमांसकादयस्तु वाच्यार्थसंबद्धार्थबोधकत्वरूपः शब्दनिष्टः इत्याहुः । यथा गङ्गायां घोषः - प्रतिवसति इत्यादौ गङ्गापदस्य प्रवाहसमीपे तीरे लक्षणा (मु० ४) - (वाक्य० ४ )। गङ्गापदशक्यप्रवाहजलौघस्य तीरे संयोगसंबन्धो गङ्गापदलक्षणा ( त० कौ० ४ )। अस्ति हि गङ्गापदशक्यः प्रवाह। विशेषः तत्संबन्धस्तीरे इति ( न्या० म० ख० ४ पृ० १० ) । अत्र - अन्वयानुपपत्तिर्लक्षणाबीजम् इति प्राञ्च आहुः ( मु० ४ )। तात्पर्या नुपपत्तिरेव (तात्पर्यनिर्वाहिका ) सर्वत्र लक्षणाबीजम् इति नव्याः प्राहुः ( भा० ५० श्लो० ८३ ) । लक्षणाप्रयोजकं चालंकारिकादय इत्थम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy