SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ६७५ योगशास्त्रम्-सांख्यप्रवचनापरनामधेयं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम् (सर्व० सं० ३३१ पातञ्ज० )। योगाङ्गानि- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि योगस्य ( सर्व० सं० पृ० ३४७ पात० )। योगाचारः- (बौद्धः ) क्षणिकविज्ञानवादी बौद्धविशेषः । गुरूक्तभावना चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य करणात्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ०)। योगाचारमतं तु बौद्धशब्दव्याख्यानावसरे (पृ० ६०९) संक्षेपतः संपादितम् । योग्यता-कार्यविशेषजनने सामर्थ्यम् । तच्च १ [क] एकपदार्थे अपर पदार्थप्रकृतसंसर्गवत्त्वम ( न्या० म० ४ पृ० २२ )। इयं योग्यता च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवह्रियते। इयं योग्यता अयोग्यवाक्यनिरासिका च भवति । अत एव वह्निना सिञ्चतीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात् ( त० कौ० ) ( त० सं० )। [ख] इतरपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । [ग] बाधकप्रमाणाभावः । [घ] बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः (चि० ४ )। निष्कृष्टार्थस्तु तदीयान्वयितावच्छेदकसंबन्धे तन्निष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वसामान्याभावः इति । तेन वह्निना सिञ्चति इत्यादौ वह्निनिष्ठकरणताया निरूपकत्वरूपान्वयितावच्छेदकसंबन्धे सेकनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वस्यैव सत्त्वान्नातिव्याप्तिः ( मा० शब्द०)। यथा प्रमेयं वाच्यमित्यादौ योग्यता (चि० ४ ) (तर्का०४ पृ० १.)। [3] अबाधितार्थकत्वम् (ग० अव०)। [च] अर्थाबाधः (त० सं० ४ )। यथा जलेन स्थलं सिञ्चतीत्यादौ योग्यता ( न्या० म० ४ पृ० २२)। अत्र जले सेकसंसर्गस्य कार्यकारणभावलक्षणस्य सत्त्वाद्योग्यता ( प्र० प्र०) ( त० कौ० ) । अथ वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy