________________
न्यायकोशः ।
1
1
मिति वा । अङ्ग पच्यतामित्यध्येषणार्थम् । पच्यतामेवेति वावधारणार्थम् ( वात्स्या० २।१।६५ ) । [ख] प्रमाणान्तरेणावधृतस्यार्थस्य प्रतिपादकः । यथा अग्निर्हिमस्य भेषजमित्यादिः (सि० च० ३३ ) ( म०प्र० ६४ ) । भेषजं विरोधीत्यर्थः । अत्र हिमविरोधि - स्वस्याग्नौ प्रत्यक्षावगतत्वादेतद्वाक्यस्यानुवादकत्वमिति बोध्यम् ( लौ० भा० ) । अन्यरीत्यानुवाद स्त्रिविधः । भूतार्थानुवादः स्तुत्यर्थानुवादः गुणानुवादश्चेति । आद्यो यथा सदेव सौम्य इदमग्र आसीदित्यादिः वज्रहस्तः पुरंदर इत्यादिश्च । अयं च विधिसमभिव्याहाराभावेप्यनुवादोस्तीति वृत्तिप्रन्थाल्लभ्यते (गौ० वृ० २ । १ । ६५ ) । द्वितीयः वायुर्वै क्षेपिष्ठेत्यादिः । तृतीयः अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्याग्निहोत्रहोमस्य दध्ना जुहोति इत्यादिवाक्ये अनुवाद : ( वा० ) । अत्र तादृशो मे दधिकरणकत्वमात्रं गुणो विधीयत इति बोध्यम् । तर्कप्रकाशेनुवादोदाहरणं यथा - यन्न दुःखेन संभिन्नम् तत्सुखं स्वः पदास्पदमित्यादि वाक्यम् । यथा वा–परिणति सुरसमाम्रफलं परिणतिविरसं पनसफलम् इत्यादि वाक्यं चानुवादः । प्रत्यक्षप्रमाणादिना तत्तदर्थनिर्णयात् ( त० प्र० ख० ४ पृ० १२ ) । [ग] ज्ञातस्य कथनमनुवादः ( जै० न्या० अ० १ पा० ४ अधि० ६ ) । अनुवादकत्वम् — गृहीतग्राह्यनुभव मात्र जनकत्वम् । स्वसमानाधिकरणस्वाव्यवहित पूर्ववर्तिस्व समानाकार निश्चय विषय विषयकतद्वद्विशेष्यकतत्प्रकारकानुभवमात्रजनकत्वमिति यावत् । अत्र स्वपदमनुभवादिपरम् (कु० व्या०३ ) । अनुवाद्यता — प्रमाणान्तरसिद्धस्य किंचिद्धर्मविधानार्थं पुनरुपन्यास्यता । यथा पर्वतो वह्निमानित्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेपि वह्निमत्त्वरूपधर्मविधानार्थमुपन्यासः ( वाच० ) । अनुवृत्तत्वम् — १ सामानाधिकरण्यम् ( ग० सव्य० ) । यथा धूमानुवृत्तो वह्निरित्यादौ वह्नौ धूमानुवृत्तत्वम् । २ धारातः प्राप्तत्वम् । यथा विज्ञानवादिबौद्धमते विज्ञानसंतानस्यानुवृत्तत्वम् ।
अनुवृत्तिः — दवीयः स्थानान्तरस्थितस्य ( पदस्य ) सर्वत्रानुसंधानम् ( दि०४ ।
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org