SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। मोक्षः-१ निःश्रेयसम् । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेभिनव कर्माभावान्निर्जराहेतुसंनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्ममोक्षणं मोक्षः ( सर्व० सं० पृ० ८० आई० ) इत्यार्हताः । आत्मोच्छेदो मोक्षः ( सर्व० सं० पृ० २४७ अक्ष० ) इति केचित् । स्वातव्यं मोक्षः ( सर्व० सं० पृ० २४९ अक्षपा० ) इत्यन्ये । अविद्यास्तमयो मोक्षः ( सर्व० सं० पृ० ४०२ शां० ) इत्यपरे । २ मोचनम् । यथा नीविमोक्षो हि मोक्षः ( सा० द० ) इत्यादौ इत्यालंकारिका आहुः । ३ मरणम् ( हेम० )। मोचनम्-१ [क] द्रवद्रव्यविभागानुकूलक्रिया । यथा जलं मुश्चति मेघ इत्यादौ । [ख] बहिःक्षरणावच्छिन्नव्यापारः (श प्र० श्लो० ७३ __टी० पृ० ९८ )। शिष्टं तु दोहनशब्दव्याख्याने द्रष्टव्यम् । २ मुक्तिः ( त्यागः )। यथा रोगात्पापाद्वा मुच्यते इत्यादौ । मोहः-१ मिथ्याप्रतिपत्तिलक्षणः दोषः ( वात्स्या० ४।१।३ )। यथा शरीरादावात्मभ्रमः ( त० दी० )। तमोगुणप्रयोज्योन्तःकरणपरिणामविशेषः इति सांख्या आहुः । तत्स्वरूपं तु उपेक्षाविषयत्वम् । उपेक्षाविषयत्वं नाम मोहः ( सर्व० सं० पृ० ३२६ सां० )। संसारहेत्वविद्याप्रयोज्यान्तःकरणवृत्तिविशेषः इति मायावादिन आहुः । भ्रान्तिसाधनमज्ञानम् इति मेदिनीकार आह । २ वेदान्तिनस्तु मूर्छा इत्याहुः । अत्राधिकं तु मूर्छनशब्दव्याख्याने द्रष्टव्यम् । ३ चित्तवैकल्यं मोहः ( मिता० अ० २ श्लो० २१४ )। ४ दुःखम् ( शब्दर० )। मौनम्-वाग्व्यापारराहित्यम् । यथा मौनं सर्वार्थसाधनम् इत्यादौ । अत्रोच्यते । उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥ इति ( स्मृतिः )। म्लेच्छ:--१ अपशब्दः । अत्र प्रमाणं श्रुति: म्लेच्छो ह वा नाम यदपशब्दः इति । २ नीच जातिः । यथा अशपत्तान्मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः (भाग० स्क० ९ अ० १६ श्लो०३३) इत्यादौ किरातादिजातिः (अमरः)। तदुक्तम् गोमांसखादको यस्तु विरुद्धं बहु भाषते। सर्वाचारविहीनश्चम्लेच्छ इत्यभिधीयते॥ इति (बौधायनः)(वाच०)।३ पापरतः (मेदिनी०)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy