SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ६३६ न्यायकोशः। इदं रजतम् इति भ्रमे विषयताद्वये व्यधिकरणप्रकारावच्छिन्नत्वस्य विषयत्वप्रतियोगित्वस्याविरोधात् समूहालम्बने च विषयताभेदान्नाप्रमालक्षणे अव्याप्त्यतिव्याप्ती (चि० १ प्रामा० पृ० ४२१-४२२)। सर्वत्र स्वपदेन विशेष्यता । [१] स्वसमानाधिकरणाकारानवच्छिन्नविषयताप्रतियोगिज्ञानम् ( चि० १ प्रामा० पृ० ४ १८-४२० ) । स्वसमानाधिकरणेति स्वसमानाधिकरणधर्मप्रकारकेत्यर्थः । प्रकारता च विशेष्यतावच्छेदकतातिरिक्ता ग्राह्या । तेन इदं रजतम् इति शुक्तिमात्र विशेष्यकभ्रमे नाव्याप्तिः। विशेष्यतावच्छेदकांशे भ्रमरूपम् विधेयांशे च प्रमारूपं ज्ञानं न लक्ष्यम् इति न तत्र दोष इति भावः (मू० म० १ प्रामा० पृ० ४२२)। ३ जलनिर्गमस्थानम् । ४ भ्रमणम् इति काव्यज्ञा आहुः। भ्रमणम् – ( कर्म ) गतिविशेषः । अयं च गमनेन्तर्भवति ( भा० ५० श्लो० ७) भ्रान्तिः-१ भ्रमः ( अमरः)। २ योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति योगशास्त्रज्ञा आहुः (पात० पा० १ सू० ३०)। अत्रोच्यते व्यवहारविषये पाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते नृणाम् । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ ( ज्यो० त० ) (वाच० ) इति । भ्रान्तिदर्शनम्-अतस्मिंस्तद्बुद्धिः ( सर्व० सं० पृ० ३५५ पात० )। मङ्गलम्-१ [क] विघ्नध्वंसद्वारकार्थसमाप्तिफलकं कर्म । तच्च यथा प्रन्थारम्भे कर्तव्यमाशीर्वादाद्यन्यतमम् निधाय हृदि विश्वशं विधाय गुरुवन्दनम् (त० सं० ) इत्यादि । मङ्गलत्वं च प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्यसाधारणकारणत्वम् (कि०व० पृ०६)। अथवा विघ्नोत्सारणासाधारणकारणत्वे सति साध्यत्वम् ( न्या० सि० दी · पृ० ३)। यद्वा मङ्गलस्त्रं निर्विघ्नमारब्धं परिसमाप्यताम् इति कामनया वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१)। अयं कल्पः , प्राचीनमताभिप्रायेण । तन्मते समाप्तिरेव सुखसाधनतया पुरुषार्थ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy