SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः ६२९ भूतकालः -- [क] यत्प्रध्वंसेन यः कालोव च्छिद्यते स तस्यातीतकालः (वै० उ० २।२।८ ) । [ ख ] तद्व्यक्तिध्वंसविशिष्टः कालस्तद्व्यक्तेरतीतकालः ( त० प्र० ) ( त० कौ० ) । [ग] वर्तमानध्वंसप्रतियोग्यवच्छिन्नः कालः (प० मा० ) । यथा गतः स कालो यत्रासीदवज्ञा कल्पशाखिनाम्। उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ इत्यादावतीतकालः । भूतत्वं च विद्यमानध्वंसप्रतियोगित्वम् । यथा अपाक्षीदित्यादौ लुङर्थो । भूतत्वम् (न्या० म० ख० ४ पृ० २४ ) ( ल० म० ) ( तर्का ० ४ ) अत्र उत्पत्तिः भूतस्त्रं च लुङोर्थः । भूतत्वं चोत्पत्तावन्वेति । तथा च विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् । ( तर्का ० ४ पृ० ११ ) । भूतम् - १ पञ्चमी तिथि: । ( पु० चि० पृ० ३७ ) । २ पृथिव्यादीनि प भूतानि । भूतत्वं च [क] बहिरिन्द्रियग्राह्य विशेषगुणवत्त्वम् (गौ० वृ० १।१।१३ ) ( न्या० बो० ) ( ग० चतु० ) ( मु० १ साधर्म्य ० पृ० ५८ ) । अत्र पदप्रयोजनादिविशेष उच्यते । आत्मन्यतिव्याप्तिवारणाय बहिःपदम् । बहिरिन्द्रियग्राह्यजातीय संयोगादिमति कालादावतिव्याप्तिवारणाय विशेष इति । द्रव्यत्वमादायातिव्याप्तिवारणाय गुण इति ( दि० १ साधर्म्यनि० पृ० ५८ ) । ख] आत्मावृत्तिविशेषगुणवत्त्वम् (मु०१ साधर्म्यनि० पृ० ५८ ) । अत्र कल्पे दैशिकपरत्वापरत्वमादाय मनस्यतिव्याप्तिवारणाय विशेष इति पदं दत्तम् ( दि० १ साधर्म्य ० पृ० ५९ ) । यथा पृथिव्यादीनां पञ्चानां भूतत्त्रम् ( भा०प० श्लो० २६ ) । पृथिव्यादीनि च पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ( गौ० १।१।१३ ) । भूतानां विशेषगुणास्तु शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः इति । भूतानामेकैकविशेषगुणा उक्ता यथा आकाशस्य गुणः शब्दः । वायोः स्पर्शः । तेजसो रूपम् । जलस्य रसः । भूमेर्गन्धः ( गौ० १|१|१४ ) ( शा० ति० ) इति । सांख्यास्त्वन्यथाङ्गीचक्रुः शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् । शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते ।। शब्दस्पर्शरूपरसैरापो ज्ञेयाश्चतुर्गुणाः । शब्दस्पर्शरूपरसगन्धैः पचगुणा मही ॥ 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy