________________
६२४
न्यायकोशः। इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्या नैश्वर्याणि भावाः ( सांख्य ०कौ० का० ४०-४५) इत्युक्ताः । ९ प्रकृतिजन्यबोधे प्रकारः असाधारणधर्मः भावः । यथा घटस्य भावो घटत्वम् इत्बादी इति सर्वशास्त्रकारा आहुः । अत्रायं विशेषो ज्ञेयः। प्रकृतिजन्यबोधे येन संबन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन संबन्धेन तदितरावृत्तित्वे सति तद्वृत्तिधर्मः इति ( भवानन्दी० )। अत्र तस्य भावस्त्वतलौ ( पा० सू० ५।१।११९) इति सूत्रेण भाववाचकस्त्वप्रत्ययो विहितः इति ज्ञेयम्। १० वासना संस्कारश्च इति मीमांसकाः प्रवदन्ति । ११ चेतनमचेतनम् इति द्विविधभेदयुतः अस्वतन्त्रतत्त्वविशेषो भावः इति मध्वाचार्याः प्राहुः । १२ भक्तिरपीति सर्वे वेदान्तिनो वदन्ति । . १३ हृद्गतावस्थावेदको मानसविकारो भावः। स च निर्वेदादिय॑भिचारिभावस्त्रयस्त्रिंशद्विधः रत्यादिः स्थायी भावश्च नवविध इति रसिका आहुः । तदुक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ ( सा० द, परि० ३ श्लो० १ ) इति । १४ नाट्योक्तनानापदार्थचिन्तकः पण्डितः इति नाटकज्ञा ब्रुवते । १५ संगीतसंगतपदार्थद्योतकहस्तचेष्टाविशेषो भावः इत्यभिनयकलाज्ञा नर्तकाश्च संगिरन्ते। १६ अभिप्रायोपीति काव्यज्ञा संजगदिरे । १७ अलंकारविशेषः इत्यालंकारिका आहुः। स्त्रीणां यौवनकाले सत्त्वभवाष्टाविंशत्यलंकारान्तर्गतोङ्गजः प्रथमालंकारोयम् । तथा चोक्तम् निर्विकारात्मके चित्ते भावः प्रथमविक्रिया इति । १८ जन्म इति पौराणिकाः संवदन्ते। १९ लग्नादितस्तन्वादि‘दशविधो भावः इति मौहूर्तिका आहुः । २० ग्रहाणां द्वादशविधचेष्टाविशेषः इति ज्योतिर्विद आहुः । २१ दिव्यवीरपशुभेदेन त्रिविधो भावः इति तत्रज्ञा आहुः । २२ मध्वमतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीतिविषयः स
भावः इत्याहुः ( प्र० च० परि० २ पृ० ४८ )। भावना-१ ( गुणः ) [क] अनुभवजन्यः स्मृतिहेतुर्गुणविशेषः
(त० सं० ४ )। स तु संस्कारप्रभेदः जीवमात्रवृत्तिः अतीन्द्रियश्चेति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org