________________
न्यायकोशः। प्राप्यप्रकाशकारित्वम्-१ संनिकृष्टग्राहित्वम् (राम० १ पृ० ७९)। यथा
बाह्येन्द्रियाणाम् । २ विषयदेशं गत्वा विषयप्रकाशकत्वम् । यथा न्यायमते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न तैजसम् इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि स्यात्तदा रसनादिवदधिष्ठानसंबद्धं गृह्णीयात् । न चैवम् । गोलकासंबद्धग्रहणात् इत्यादि ( दि० १ तेजो० पृ० ७९-८० )। मायावादि
मते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम् ( वाच० ) इति । प्राप्यम्-१ ( कर्म ) क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयताना
श्रयत्वे सति फलाश्रयः ( क्रियाजन्यफलवत्त्वेनोद्देश्यः ) ( वाच० )। यथा ग्रामं गच्छतीत्यादौ ग्रामः प्राप्यं कर्म । अत्र ग्रामादेः कर्तृसाधारणसंयोगरूपफलवत्त्वेपि क्रियाप्रयोज्यश्रमादिरूपासाधारणविशेषफलस्यानाधारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् । निवर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वान्नातिप्रसङ्ग इति बोध्यम् (वाच०) । क्रियाप्रयोज्येत्यादिलक्षणे निर्वादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्य असाधारणधर्मघटितस्य वा तस्य घटं जानातीत्यादौ घटादावसंभव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्यधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासायासाधारणेति । क्रियाजन्यफलामाश्रयेतिप्रसक्तिनिरासाय विशेष्यम् । प्राप्यकर्मलक्षणमुक्तं वाक्यपदीये हरिणा क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति (ग० व्यु० का०
२ पृ० ६५ )। २ गम्यम् । ३ लभ्यं चेति काव्यज्ञा आहुः । प्राभाकरः-मीमांसकविशेषप्रभाकरमतानुयायी तन्मतज्ञश्च । अत्र व्युत्पत्तिः
प्रभाकरस्य इदं तन्मतं वेत्ति वा ( अण् ) इति । प्रभाकरस्य गुरु
इत्यपरनाम । प्रामाण्यम-१ प्रमात्वम् । २ प्रमाणत्वम् । अत्रत्यः स्वतःप्रामाण्यादि
प्रपञ्चस्तु प्रमात्वशब्दे संपादितः । तत्र द्रष्टव्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org