________________
शः।
५८४
न्यायकोशः। प्रसज्यप्रतिषेधशब्दस्य व्युत्पत्तिस्तु प्रसज्य विधाय विहितस्य प्रतिषेधः इति । प्रसज्य क्रियागुणौ ततः पश्चान्निवृत्तिं करोति इति महाभाष्यप्रामाण्यात् ( ल० म० )। केचित्तु प्रसज्य प्रसक्तिं संपाद्य ( आरोप्येति यावत् ) प्रतिषेधः इत्याहुः । अत्रायं विवेकः । प्रसक्तं हि प्रतिषिध्यते इति न्यायेनारोपितप्रसङ्गस्यैव निषेधः । तेन वायौ रूपं नास्तीत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नया बोध्यते इति (वाच०)। अत्रायमप्यन्यो विशेषः । प्रसज्यनञा तत्पुरुषो भावकृदन्तपदयोग एव । न घटादिपदयोगे । वादिनामविवाद इत्याद्युदाहरणेषु भावकृदन्तस्यैवोत्तरपदत्वात् इति संप्रदायविद आहुः ( श० प्र०)। [ख] शाब्दिकादयस्तु यस्यार्थस्य धात्वर्थेनान्वयो नवा प्रत्याय्यते सः। यथा न कलनं भक्षयेदित्यादौ नबर्थः प्रसज्यप्रतिषेधः इत्याहुः । तदुक्तमभियुक्तैः प्रसज्यप्रतिषेधः स्याक्रियया सह यत्र नञ् इति । अत्र विशेषः । न कलशं भक्षयेदित्यत्र बलवदनिष्ठासाधनत्वविशिष्टेष्टसाधनत्वरूपस्य विध्यर्थस्याभावो नया भक्षणक्रियायां बोध्यते । तेन विधेरप्राधान्यम् नअर्थाभावस्य च प्राधान्यम्। तेन तत्र क्रियापदान्वयी नञ् प्रसज्याप्रतिषेधार्थकः । तदुक्तम् अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोसौ क्रियया सह यत्र नञ् ॥ इति । अमुक्ता भवता नाथ मुहूर्तमपि सा पुरा इत्यादावमुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवोचितम् इति । न कलञ्जमित्यत्र गुरुमते तु कलञ्जभक्षणाभावविषयक कार्यम् इति बोधेनाभावविशेष्यकबोधेपि प्रतिषेधस्य प्राधान्यात् तथात्वम् । तथा च तन्मते कचित् विधेरप्राधान्येन क्वचिच्च प्रतिषेधस्य प्राधान्येन इति व्यस्तमेव प्रसज्यप्रतिषेधप्रबोधप्रयोजकम् इति बोध्यम्
( वाच०)। प्रसञ्जनम्-१ (क] आपादनम् । यथा अत्र घटः स्यात् तर्युपलभ्येत
इति । [ख] आहार्यारोपः (राम०)। यथा यदि पर्वतो निर्वह्निः स्यात्तर्हि निधूमः स्यात् इति । २ कचित् तुल्यत्वेनाभावयोः प्रतिभाववचनम् प्रसञ्जनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org