SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । संयुक्तत्वम् । यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वान्मद्वदित्यत्र जीवन प्रतियोगित्वम् ( दीधि० बाध० २ ० २३ ) ( चि०२ पृ० ६८ ) इत्यादौ आत्मनो जीवनस्य मरणस्य वा प्रतियोगित्वम् । अत्र आत्मशरीरविभागस्य चरमप्राणशरीरसंयोगध्वंसस्य वा मरणरूपत्वे स्वं विभागः ध्वंसो वा । तदाश्रयः शरीरम् । तत्संयुक्तत्वमात्मनः इति लक्षणसंगतिः । जीवनप्रतियोगित्वं तु सदेहात्ममन:संयोगस्य जीवनरूपत्वे स्वीकर्तव्ये तादृशसंयोगानुयोगित्वमेवात्मनः प्रतियोगित्वम् इति विज्ञेयम् । प्रतियोगितावच्छेदकः येन रूपेण ( धर्मेण ) यस्याभावादौ प्रतियोगिता 1 बोध्यते स धर्मः । यथा घटाभावे घंटस्य घटत्वरूपेण प्रतियोगिता बोध्यते । अतस्तत्र घटत्वं प्रतियोगितावच्छेदकम् । स च धर्मः क्वचि - देकः क्वचिदनेकश्च । तत्र वह्निर्नास्तीत्यादौ वह्नित्वमेकम् । महानसीयवह्निर्नास्तीत्यादौ महानसीयत्वं वह्नित्वं चेत्युभयम् । घटपटोभयं नास्तीत्यादौ तु घटत्वम् त्वम् उभयत्वं चेति त्रयम् इत्यादिकमनेकम् । संबन्धोप प्रतियोगितावच्छेदको भवति । स च येन संबन्धेन प्रतियोगिताया अभावांशे भानम् तादृशः संबन्धः । यथा संयोगेन घटो नास्ति इत्यादौ संयोगेन घटस्याभावांशे प्रतियोगिताभानम् इति तत्र संयोगसंबन्धः प्रतियोगितावच्छेदकसंबन्धः । एवम् साध्यतावच्छेदकसंबन्धः पक्षतावच्छेदक संबन्धः आवेयतावच्छेदकसंबन्धश्च इत्यादिकमूह्यम् । अधिकं चावच्छेदकशब्दे दृश्यम् । 1 1 प्रतिरुद्धः – १ प्रकरणसमशब्दवदस्यार्थोनुसंधेयः ( ता० २० श्लो०८३) २ प्रतिरोधकर्मा । यथा साध्यविरोध्युपस्थानसमर्थ समानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि०२ सप्र० पृ० ९४ ) इत्यादौ । प्रतिरोधः – १ सत्प्रतिपक्षदोषः । यथा पक्षसाध्यसाधनाप्रसिद्धिस्वरूपासिद्धिबाधप्रतिरोधानां निरास: ( दीधि० ) इत्यादौ । २ प्रतिबन्धः कार्यविशेषानुत्पादो वा । ३ तिरस्कारः । ४ हठचौर्यम् इति व्यवहारज्ञा आहुः ( वाच० ) । । ५३६ Jain Education International Con For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy