________________
५२८
न्यायकोशः। स्थिते इदमाह यद्येन्द्रियकं सामान्यं नित्यम् कामं घटो नित्योस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति ( वात्स्या० ५।२।२ )। अत्र वृत्तिः। प्रतिकूलो दृष्टान्तो यत्र स प्रतिदृष्टान्तः परपक्षः । स्वः स्वीयो दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः इति (गौ० वृ० ५।२।२ )। [ख] स्वपक्षे परपक्षधर्माभ्यनुज्ञा । स्वयं विशिष्याभिहितपरित्यागः इति फलितार्थः (गौ० वृ० ५।२।२)। अत्रोच्यते। कथायां यच्च पक्षादि येन निर्दिष्ट्रमादितः। तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥ इति ( ता० र० परि० ३ श्लो० १३४ ) [ग] प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा ( नील. पृ० ४५ )। [घ] विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागः ( दि० १ पृ० २२) । पक्षस्य पक्षत्वेन प्रतिपादनाभावरूपता इति भावः ( राम० १ पृ० २२ ) । यथा शब्दः अनित्यः प्रत्यक्षगुणत्वादित्यत्र सोयं गकारः इत्यादिप्रत्यभिज्ञाबलात्परेण बाध उद्भाविते अस्तु तर्हि नित्यः शब्दः इति नित्यत्वमङ्गीकुर्वन्वादी शब्दस्यानित्यत्वप्रतिज्ञा जहाति ( नील० पृ० ४५)। सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहानिभेदात्पश्चधा भवति । यथा ( १) शब्दः अनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया बाधितविषयोयमित्युत्तरिते अस्तु तर्हि घट एव पक्षः इति । (२) एवम् तत्रैव ऐन्द्रियकत्वादिति हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वादिति हेतुरिति । (३) एवम् पर्वतो वह्निमान धूमादयोगोलकवदित्युक्ते दृष्टान्तः साधनविकल इति प्रत्युक्ते अस्तु तर्हि महानसवदिति । (४) एवम् अत्रैव सिद्धसाधने च प्रयुक्ते अस्तु तर्हि इन्धनवानिति । (५) अन्यहानिस्तु विशेषणहान्यादिः । यथा तत्रैव नीलधूमादित्युक्ते असमर्थविशेषणत्वेन प्रत्युक्ते अस्तु तर्हि धूमात् इति हेतुः इत्यादि (गौ० वृ० ५।२।२ )। प्रतिज्ञाहानिश्च अभावे अन्तर्भवतीति विज्ञेयम् ( दि० १
पृ० २२ )। प्रतितत्रम्-खमतविरुद्धशास्त्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org