________________
न्यायकोशः ।
५१७ निश्चयस्यासत्वेपि तदर्थस्यैकत्ववर्तमानत्वादेश्चैत्रपाकादावन्वयात् स्वाव्यवहितोत्तरत्वसंसर्गेण तादृशशब्दवत्ताया निश्चय एव तदुपस्थाप्यया दृशान्वयबोधं प्रति हेतुः तादृशस्यैव च शब्दस्य प्रकृते तथाविधः स्वार्थः । स च पाकेत्यादेः शक्त्यादिविरहेपि पचनादिरूपः सुवच एव । पचनादेः कर्मत्वादावन्वयबोधं प्रति अमादिधर्मिकता हशशब्दवत्ताया निश्चयस्यैव हेतुत्वात् लक्षणसमन्वयः । प्रत्ययास्तु पदान्तरार्थानवच्छिन्नस्य संख्याकाल-इष्टसाधनत्व-इत्यादिस्वार्थस्यान्वयबोधं प्रत्यनिश्चिता अप्युपयुज्यन्ते इति तत्र नातिव्याप्तिः ( श० प्र० श्लो० ६ टी० पृ० ८ ) । [ ख ] स्वोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ता निश्चयत्वेन हेतुत्वम् तादृश एव शब्दस्तथाविधार्थे प्रकृतिः । बहुगुडो द्राक्षेत्यादो बहुजाद्यर्थस्यान्वयबोधं प्रति न गुडादिपदधर्मिक बहुजादिनिश्चयत्वेन हेतुत्वम् । अपि तु सुबादिधर्मिक बहुगुडादिपदनिश्चयत्वेन । अन्यथा केवलादपि बहुगुडादिपदाद्राक्षादौ बहुजाद्यर्थस्यान्वयबोधापत्तेः इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ७ टी० पृ० १ - १० ) । [ग] शाब्दिकास्तु पाणिनिप्रभृतयः प्रातिपदिकं प्रकृतिः इत्याहुः (श० प्र० श्लो० १३ टी० पृ० १५ ) | [घ] नव्यशाब्दिकाः नागोजीभट्टादयस्तु अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्दविशेष: इत्याहुः । अत्रावधित्वं च पूर्वापरत्वरूपं ग्राह्यम् । तेन बहुगुडो द्राक्षेत्यत्र बहुजादेर्निमित्तप्रकृतौ नाप्रसङ्गः । वस्तुतस्तु बहुगुडो द्राक्षेत्यत्र प्रकृतिप्रत्ययविभाग एव नास्ति इति भाष्यकारमतमित्यन्यत् । अत्रार्थे व्युत्पत्तिः । प्रकरोति प्रत्ययं बोधं च इति प्रकृतिशब्दो योगरूढः ( वाच० ) । अत्र प्रकृतित्वं च प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वम् ( शेखर ० ) । प्रत्ययविधानावधित्वम् वा (ल० म० ) । अथवा तदर्थान्वितस्यार्थबोधने तदपेक्षत्वे सति द्विधानावधिभूतत्वम् । इयं प्रकृतिर्द्विविधा । नाम धातुश्चेति ( श० प्र० श्लो० १३ ) २ कारणम् यथा मृत्पिण्डाद्धटो जायत इत्यादौ मृत्पिण्डः प्रकृतिः ( ग० व्यु० का० ५ पृ० १०८ ) । अत्र जनिकर्तुः प्रकृति: ( पा० सू० १।४।३० ) इत्यनेनापादानत्वम् । न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org