________________
न्यायकोशः।
५१३ साधकः एतयोः कः परामर्शः प्रमा इति वा यत्र जिज्ञासा भवतीत्यर्थः । यस्मादित्यादि तु वस्तुस्थितिमात्रम् ( गौ० वृ० १।२।७)। अत्र भाष्यम् । विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम् । तस्य चिन्ता विमर्शात्प्रभृति प्रार्णियाद्यत्समीक्षणम् । सा जिज्ञासा यत्कृता स निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते। प्रज्ञापनं तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति। अनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि ( वात्स्या० १।२।७ )। अस्मिन्नभिप्राये सूत्रार्थश्च निर्णयार्थ प्रयुक्तो हेतुर्यत्र निर्णयं जनयितुमशक्तस्तुल्यबलेन परेण प्रतिबन्धात् किंतु धर्मिणः साध्यवत्त्वम् तदभाववत्त्वं वेति चिन्तां जिज्ञासां प्रवर्तयति स प्रकरणसमः इति (गौ० वृ० १।२।७ )। प्रकरणसमस्य लक्षणं तु तुल्यबलविरोधिपरामर्शकालीनपरामर्शविषयत्वम् । स्वसाध्यपरामर्शकालीनतुल्यबलविरोधिपरामर्शो वा (गौ० वृ० १।२।७ ) इति । अन्यत्सर्वं सत्प्रतिपक्षवज्ज्ञातव्यम् । अत्रेदं बोध्यम् । विरोधिपरामर्शस्य च हेतुनिष्ठत्वम् एकज्ञानविषयत्वसंबन्धेन ज्ञेयम् । अन्यथा हेतोर्दुष्टत्वं न स्यात् । अयं च दशाविशेषे दोषः इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्टमेव इति (गौ० वृ० १।२७)। [ख] निबन्धे तु प्रकृतसाध्यहेत्वोः किं तत्त्वम् इति जिज्ञासाजनिका व्याप्तिपक्षधर्मतोपस्थितिः तद्विषयः (चि० २ हेत्वार पृ० ९७ ) ( म० प्र० २।२७ ) । अत्र जिज्ञासा च प्रकृतसाध्यहेत्वोः कः समीचीनः इत्याकारिका ग्राह्या (ग० सत्प्र० पृ. २३ )। तथा च अनयोः किं तत्त्वम् इति जिज्ञासैव सत्प्रतिपक्षफलम् इति बोध्यम् (चि० २ हेत्वा० पृ० ९७ ) (ग० सत्त० पृ० २२ ) ( म० प्र०२ पृ० २७)। तदर्थश्च यादृशपरामर्शसहकारेण यादृशपरामर्शस्योक्तजिज्ञासाजनकत्वं तादृशपरामर्शसहिततादृशपरामर्शः इति ( ग० सत्प्र० पृ० २३ )। अत्र च पर्वते धूमेन वह्निसाधने पर्वतो वह्निव्याप्यधूमवान् वह्नयभावव्याप्यजलवान् इति परामर्शद्वयसंवलनदशायां प्रकृतो धूमो हेतुः सत्प्रतिपक्षितः इति व्यवहियत इत्यनुभवमनुसृत्येदं विज्ञेयम् । [ग] यस्य प्रतिपक्षभूतं हेत्वन्तरमस्ति स प्रकरणसमः । स एव ६५ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org