________________
न्यायकोशः।
५०७ पूर्वाह्नः-१ पूर्वाह्नः प्रहरं साधं मध्याह्नः प्रहरं तथा । आतृतीयाच्चापराहः • सायाह्नश्च ततः परः । २ अहनि त्रिधा विभक्ते पूर्वो भागः ( मिताक्षरा
अ० २ श्लो० ९७ )। पृच्छा-[क] जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः। यथा गुरुं धर्म
पृच्छतीत्यादौ पृच्छतेरर्थः । अत्र पृच्छधात्वर्थघटके ज्ञाने गुरुवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । शब्दस्य च विषयता व्यापारानुबन्धिनी । ज्ञानस्य परंपरया शब्दरूपधात्वर्थविशेषणत्वात्तदाश्रयीभूतगुरोर्गौणकर्मता । धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता इति ज्ञेयम् (ग० व्यु० का० २ पृ० ४५-४६)। [ख] अभिधानावच्छिन्नव्यापारः । यथा पान्थं पन्थानं पृच्छतीत्यत्र पृच्छधात्वर्थः पृच्छा। अभिधानमिहाभिलापः। तदनुकूलव्यापारश्च केन पथा गन्तव्यम् इत्यादिप्रश्नः । तथा च पान्थनिष्ठं यत् पथोभिधानम् तदनुकूलव्यापारवान् इत्येवं तत्र बोधः ( श० प्र० श्लो० ७३ टी० पृ० ११२ )। [ग] केचिच्छाब्दिकास्तु जिज्ञासाविषयकज्ञानानुकूलव्यापारः। स च कथं धर्म आचरितव्यः इत्यभिलापादिः । यथा पृच्छयते शिष्येण गुरुर्धर्ममित्यादौ पृच्छेरर्थः इत्याहुः ( वाच० )। अस्य द्विकर्मकत्वेन गौणे कर्मणि गुरौ लकारादिः । अत्र ज्ञानविषयत्वेन धर्मस्य तज्ज्ञानाश्रयत्वाच्च
गुरोः कर्मत्वम् इति ज्ञेयम् । [घ] प्रश्नः इति काव्यज्ञा आहुः। पृथक्त्वम्-१ असाहित्यम् । यथा दुनोति चन्द्रात्पृथगप्यनङ्गः इत्यादौ
पृथक्त्वमसाहित्यम् (ग० व्यु० का० ५ पृ० ११० )। २ (गुणः) [क] अपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यम् अनेकद्रव्यं च । तस्य च नित्यानित्यत्वनिष्पत्तिः संख्यावज्ञेया (प्रशस्त० पृ० १६)। [ख] पृथग्व्यवहारासाधारणकारणम् पृथक्त्वत्वजातिमत् वा (त० सं० ) ( त० कौ० )। यथा इदमस्मात्पृथक् इत्यादौ । पृथग्व्यवहारश्व अयमस्मात् पृथक् इति व्यवहारः। तादृशव्यवहारजनकतावच्छेदकमुख्यप्रकारतावत्त्वं लक्षणम् इति ( वाक्य० १ पृ० ८ )। विस्तरस्तु अन्यत्र ( वै० उ० ७२।२ ) द्रष्टव्यः । अत्र सूत्रम् तथा पृथक्त्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org