SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। मानयेत्यत्र पर्युदासे पूर्वपदे नव्युत्तरपदार्थसंबन्धिनि क्षत्रिये लक्षणा । अघटः पट इत्यादौ पर्युदासार्थे नभ्यपि सामानाधिकरण्यादभाववल्लक्षणा। व्यासेपि न घटः पट इत्यादौ तथैव । यथा शुक्लपट इत्यत्र शुक्लवल्लक्षणा । न पचतीत्यादौ क्रियासंबन्धे भूतले न घट इत्यादौ च प्रसज्यप्रतिषेधे तु नबो मुख्यार्थता । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यत्र पर्युदासे नन् । तेनायमर्थः नानुयाजेषु अनुयाजव्यतिरिक्तेषु यजतिषु ये यजामहे इति मनं करोति इति ( चि० ४)। अत्रेदं बोध्यम् । नवजलधरः संनद्धोयं न दृप्तनिशाचरः इत्यादौ तत्पुरुषसमासे गुणीभावे नत्रः पर्युदासतया निषेधस्य विधेयतानवगमः । जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृघ्नुराददे सोर्थानसक्तः सुखमन्वभूत् ॥ इत्यादौ अत्रस्तादितामनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणभावो युक्तः इति। [ख] फलप्रत्यवायशून्यतया समभिव्याहृतपदार्थभेदः। यथा रात्रौ श्राद्धं न कुर्वीत इत्यादौ नबर्थः पर्युदासः । तथाहि रात्री श्राद्धं न कुर्वीत इत्यादौ रात्रौ श्राद्धे न फलम् न वा प्रत्यवायः इति रात्रिः पयुदस्ता तद्भिन्ना दिनावस्था नया बोध्यते इति । अत्र मीमांसकाः । पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन न ॥ ( मी० न्या० पृ० ६२)। अयमर्थः । उत्तरपदं प्रत्ययः। तदन्यत्पूर्वपदम् । तत्र यदा प्रत्ययार्थभावनया सह नत्रः संबन्धस्तदा प्रतिषेधः । यदा तु प्रत्ययार्थभावनाव्यतिरिक्तेन धात्वर्थेन वा पदार्थेन सह नबः संबन्धस्तदा पर्युदासः। आद्योदाहरणम् न कलशं भक्षयेत् इति । अत्र हि लिङर्थप्रवर्तनया सह नबः संबन्धः । नमश्चैष स्वभावो यत्स्वसंबन्धिप्रतिपक्षबोधकत्वम् । तदत्र प्रवर्तनापतिपक्षभूतां निवर्तनां प्रतिपादयति । तथा च कलञ्जकर्मकभक्षणनिवर्तनेति बोधः । द्वितीयोदाहरणं तु नेक्षेतोद्यन्तमादित्यमिति । अत्र हि धात्वर्थेन सह नञः संबन्धः । तथा च नजीक्षतिभ्यामीक्षणविरोधी नेक्षे इत्यनीक्षणसंकल्पः प्रतिपाद्यते । वैयाकरणास्तु समासघटकस्य नो यदोत्तरपदार्थेन सहान्वयस्तदा पर्युदासः । यदा च तादृशस्यैव नञः क्रियया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy