SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । Â૦૦ परार्थानुमानम् - ( अनुमानम् ) १ [क] न्यायप्रयोज्यानुमानम् (न्या० बो० ० २ पृ० १५ ) ( चि० २ पृ० ७६ ) । यथा परसमवेतानुमितिकरणं लिङ्गपरामर्शः परार्थानुमानम् । अत्र परस्य मध्यस्थस्यार्थः प्रयोजनं साध्यानुमितिरूपं मध्यस्थसंशयनिवृत्तिरूपं वा यस्मात् इति व्युत्पत्तिर्द्रष्टव्या ( नील० २ ० २१) । [ख] येन परं प्रतिपादयति तत् परार्थानुमानम् इति ( न्या० वि० परि० २ पृ० २१) । [ग] पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां निश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् । अथावयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसंधान प्रत्यान्नायाः इति ( प्रशस्त० २ ० २८ ) । २ पञ्चावयववाक्यम् ( नील० २ पृ० २२ ) । तथा चोक्तम् । परार्थानुमानं शब्दात्मकम् । स्वार्थानुमानं तु ज्ञानात्मकम् ( न्यायबिन्दु ० टी० प० २ पृ० २१) । अयं भावः तस्य शब्दात्मकत्वेपि अनुमानविषयत्वेन अविनाभावोपनायकत्वेन वानुमानत्वम् गौणम् इति विज्ञेयम् । परार्थानुमानप्रयोजके पञ्चावयववाक्ये परार्थानुमानशब्दस्य - पचारिक प्रयोगः इति ( नील० २ पृ० २२ ) । अनेन प्रतिपादिता - लिङ्गात्परोप्यग्निं वह्निमान् धूमादित्यादौ प्रतिपद्यते ( त० सं० ) । यथा यत्तु कश्चित्स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतमनुमानवाक्यं प्रयुङ्क्ते तत् परार्थानुमानम् (त० भा० २ प्रमाण० पृ० ११ ) ( त० सं० ) इत्यादी पर्वतग्निमान् धूमवत्त्वात् यो यो धूमवान्स सोग्निमान्यथा महानसः तथा चायम् तस्मात्तथा इति पञ्चावयववाक्यं ( प्रतिज्ञादि - समुदाय: ) परार्थानुमानम् (त० सं० ) ( नील० २ पृ० २२ ) । अत्रपरस्य प्रतिवादिनोर्थो निवृत्तिर्यस्मात् इति व्युत्पत्तिर्द्रष्टव्येति केचित् । परावरणम् – शूर्पेण तण्डुलानां कणेभ्यो विवेचनम् ( जै० न्या० अ० ५ पा० २ अधि० ७ ) । परि - ( अव्ययम् ) १ समन्ततो भावः । यथा परिभ्रमति इति । २ व्याप्तिः । यथा परिणतः इति । ३ दोषकथनम् । यथा परिवादः इति । ४ भूषणम् । यथा परिष्करोति इति । ५ आश्लेषः । यथा परिष्वजते इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy