________________
न्यायकोशः। धिकरणत्वं तन्निरूपितमाघेयत्वं वा सप्तम्यानुभाव्यत इति तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणकारकम् ( श० प्र० ८९ )।
अधिकरणत्वं च [क] अधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः । यथा घटवद्भूतलमित्यादौ भूतले घटाधिकरणता । [ख] विषयताविशेष इति केचिद्वदन्ति ।। [ग] यथार्थविशिष्टधीविशेष्यत्वमित्यपरो वक्ति । [घ ] कर्तृद्वारा कर्मद्वारा वा क्रियाश्रयत्वमिति शाब्दिका वदन्ति । अधिकरणम्-अवान्तरप्रकरणम् ( मीमांसाधिकरणकौमुदी पृ. १)। विषय संशय पूर्वपक्ष उत्तर सिद्धान्त एतत्पश्चाङ्गबोधकवाक्यसमुदाय
रूपन्यायत्वमधिकरणत्वमिति मीमांसका वेदान्तिनश्चाहुः । अधिकरणसिद्धान्तः- (सिद्धान्तः) [क] यत्सिद्धावन्यप्रकरणसिद्धिः
सोधिकरणसिद्धान्तः ( गौ० १।१।३०)। यस्यार्थस्य सिद्धावन्ये
१ एतन्मतेधिकरणं च [क] कादिव्यवहितक्रियाधारः । [ख] अधिकरणत्वशक्तिमत् । सा शक्तिः कर्तृकर्मद्वारा यः क्रियाश्रयस्तन्निष्ठा । अधिकरणं त्रिधा।
औपश्लेषिकं वैषयिकम् अभिव्यापकं चेति। तदुक्तं हरिणा । उपश्लेषस्य चा. भेदस्तिलाकाशकटादिषु । उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे खतन्त्रता । दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ॥ इति ।
औपश्लेषिकवैषधिकाभिव्यापकेषु त्रिष्वपि उपश्लेषोस्त्येव । उपकारः संबन्धः । तद्भेदात्तु त्रित्वेन व्यवहारः । कटे आस्त. इत्यादौ संयोगन्याधारे कतिपयावयवव्याप्त्यैव संबन्धः । तिलेष्वित्यादौ समवायिनि समस्तावयवव्याप्त्या सः । खे शकुनय इत्यत्राकाशस्य तात्त्विकावयवाभावेन कल्पितदेशत्वात् कल्पितदेशापेक्षया चात्राप्युक्तान्यतर उपश्लेषः । केचित्तु औपश्लेषिकमित्यस्य उप समीपे श्लेषः संबन्धस्तत्कृतम्-इत्यर्थः । एवं च यत्किंचिदवयवावच्छेदेनाधारस्याधेयेन व्याप्तिरप्युपश्लेषः । यथा कटे आस्ते गुरौ वसति इति । एवमेव गङ्गेकदेशे तरन्तीषु गोषु कूपैकदेशस्थिते गर्गकुले गङ्गायां गावः कूपे गर्गकुलम् इत्यादौ बोध्यम् । वैषयिकं तु अप्राप्तिपूर्वकप्राप्तिरूपसंयोगसमवायैतद्भिन्नसंबन्धेन यदधिकरणं तत् । यथा खे शकुनयः मोक्षे इच्छास्ति इत्यादि । अभिव्यापकं तु यत्र सर्वावयवावच्छेदेन व्याप्तिस्तत् । यथा तिलेषु तैलं दनि सपिरिति । अभिव्यापकमेव मुख्यमधिकरणमित्याहुः । ( ल० म० ११८)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org