SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४३२ न्यायकोशः। इत्यादौ । यथा वा द्रव्यं निरूपयतीत्यादौ निरूपयत्यर्थः । अत्र तादृशविशिष्टैकार्थस्य धात्वर्थस्य एकदेशे ज्ञानांशे द्रव्यस्य द्वितीयार्थविषयतानिरूपितविषयितयान्वयः ( ग० व्यु० का० २ पृ० ४६ )। तथा च द्रव्यविषयकज्ञानानुकूलशब्दप्रयोगकर्ता इति बोधः । यथा वा अथ हेत्वाभासास्तत्त्वनिर्णयप्रयोजकत्वान्निरूप्यन्ते (चि० २) इत्यादौ । अत्रेदं बोध्यम् । निरूपणप्रतिज्ञाफलं तु शिष्यावधानमेवेति (म०प्र०३ पृ० ३३ )। २ विचारः । ३ निदर्शनम् । ४ आलोकः इति काव्यज्ञा आहुः ( वाच० )। निरूपितत्वम्-स्वरूपसंबन्धविशेषः । यथा राज्ञः पुरुष इत्यादौ पुरुषनिष्ठ... स्वत्वे राजनिष्ठस्वामित्वनिरूपितत्वम्। शिष्टं तु निरूपकत्वशब्दे द्रष्टव्यम् । निरूप्यत्वम्-निरूपितत्वम् । निरोधः-चित्तस्यावस्थाविशेषः । निरुध्यन्तेस्मिन्प्राणाद्याश्चित्तवृत्तयः इति ____व्युत्पत्तेः ( सर्व० सं० पृ० ३६५ पातृञ्ज० )। निर्गमः-पुत्र्युद्वाहस्तु निर्गमः ( पु० चि० पृ० ४५० )। निर्जरः—आस्रवः कर्मणां बन्धो निर्जरस्तद्वियोजनम् (आईतदर्शनम् )। निर्जरा-[क] अर्जितस्य कर्मणस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वम् ( सर्व० पृ० ८० आई०)। [ख] यत्कर्म तपोबलात्स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत्कर्म निर्जरा । यदाह संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा संमता द्वेधा सकामाकामनिर्जरा ॥ स्मृता सकामा यमिनामकामा त्वन्यदेहिनाम् इति (सर्व० सं० पृ० ८० आई०)। निर्णयः-१ [क] तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् ( गौ० वृ० १।१।४१) (त० भा० पृ० ४४ )। यथा घटे अयं घटः इति ज्ञानम् । अत्रोच्यते । निर्णयो विशेषदर्शनजमवधारणम् संशयविरोधि । तत् द्विविधम् । प्रत्यक्षम् अनुमानं च । तत्राद्यं यथा स्थाणुपुरुषयोरूर्खतामात्रसादृश्यालोचनाद्विशेषेषु प्रत्यक्षेषूभयविशेषानुस्मरणात् किमयं स्थाणुः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy