SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। - यथा प्रसादो निष्फलो यस्य क्रोधश्चापि मिरर्थकः ( भा० उ० अ०३५) इत्थं जन्म निरर्थकं क्षितितलेरण्ये यथा मालती ( सा० द० ) इत्यादौ इति काव्यज्ञा आहुः ( वाच० )। निराकासम्-अनाकाङ्क्षम् । शाब्दबोधोपयोग्याकाङ्क्षाशून्यमिति यावत् । - यथा तेषां वाक्यं निराकाङ्क्षम् ( कात्या० श्री० १।३।२ ) इत्यादौ । निरिष्टकः-पुनः प्रयोगानह इत्यर्थः । इष्टान्निर्गतो निरिष्टः। कुत्सितो निरिष्टो निरिष्टकः इति व्युत्पत्तेः । यथा भोजन उपयुक्तं कदलीपर्ण प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति (जै० न्या० अ० ११ पा० ३ अधि० १२)। निरुद्धम्—निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति भण्यते । (सर्व० सं० पृ० ३५६ पातञ्ज० )। निरुपाख्यम्-[क] निःस्वरूपम् ( रत्नप्रभा० ) । [ख] प्रमाण मात्राविषयोसत्पदार्थः । यथा वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि । इदमेवालीकमित्युच्यते । तुच्छमिति वेदान्तिभिरुच्यते । अभावपदार्थ इति केचिदाहुः। निरूढः-१ शक्तितुल्यलक्षणयार्थबोधकः शब्दः । यथा पूर्वद्रव्यस्वामि संबन्धाधीनं तत्स्वान्युपरमे यत्र द्रव्येन्यस्वत्वम् तत्र निरूढो दायशब्दः इति जीमूतवाहनेनोक्तो निरूढशब्दः ( वीरमित्रो० अ० २ दायभाग० पृ० ५२२ )। २ धर्मज्ञास्तु पशुयागविशेषः । यथा निर्मित ऐन्द्रानः (आश्व० श्री० ३।८४ ) ऐन्द्राग्नो निरूढो नाम पशुः कर्तव्यः इत्यादौ इत्याहुः ( वाच० )। निरूढलक्षणा—( लक्षणा) [क] अनादितात्पर्यविषयीभूतार्थनिष्ठा लक्षणा (त० प्र० ख० १ पृ० ४३ ) ( ग० व्यु० का० १) । अत्र तात्पर्येनादित्वं च स्वज्ञानजन्यशाब्दबोधध्वंसकालीनस्वज्ञानजन्यशाब्दबोधसामान्यकत्वम् ( कृष्ण० )। तदन्वयश्च अनादितात्पर्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy