SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। [ख] इतरधर्मस्येतरस्मिन्प्रयोगायादेशः । ( वाच०) [ग] अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः । प्राप्तिरतिदेशोभिधीयते। [५] १ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन स्यात्सोतिदेश इति स्मृतः ( जै० न्या० अ० ७५।१। अधि० १)। २ स्वविषयमुल्लङ्घयान्यविषय उपदेशः । यथाकालोपपाते तदैवते तदैवतं हुत्वा तद्वातिदिश्यानेन जुहुयात् ( कात्या० श्रौ० २५।२।४ ) इत्यादौ अतिदेशशब्दार्थः । ३ उपदेशः । यथा - इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ( भाग० ४।९।२८ ) इत्यादौ-अतिदेशशब्दार्थः । अतिप्रसङ्गः-१ अतिव्याप्तिः । २ प्रकृतादन्यत्र प्रसञ्जनम् । अतिरिक्तत्वम्-व्यतिरेक-शब्दस्यार्थवदस्यार्थीनुसंधेयः। अतिव्याप्तिः- ( लक्षणदोषः ) १ [क] अलक्ष्यवृत्तित्वम् । यथा गोः शृङ्गित्वस्य लक्षणत्वेतिव्याप्तिः । ( त० दी० ) ( ल० व०) [ख] लभ्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिनप्रतियोगिताकभेदसामानाधिकरण्यम् ( न्या० बो०)। यथा मनुष्यो ब्राह्मण इति लक्षणस्य शूद्रेतिव्याप्तिः (त० कौ० )।२ व्याप्य १ यथा मीमांसायां प्रकृतिवद्विकृतिः कर्तव्येत्यादिः । २ अत्र मनुष्यत्वं हि लक्ष्यतावच्छेदकब्राह्मणत्वाश्रये ब्राह्मणत्वाभयभिन्ने च शूद्रा दावपि वर्तत इत्यतिव्याप्तं भवतीति तात्पर्यम् । ३ इदं च लक्षणस्य (व्यतिरेकिहेतोः) व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु 'लक्षणम् ' इत्यत्र द्रष्टव्यः । *अत्रेदं बोध्यम् । प्रकृतिभूतदर्शकार्यादेरङ्गकार्याणि प्रयाजादीनि विकृतौ पश्वादियागेऽतिदिश्यन्त इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy