SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३७८ न्यायकोशः। उद्देश्यत्वम् उद्देश्यित्वं वा । यथा वह्निमत्त्वेन पर्वतमनुमिनोमीत्यादौ द्वितीयार्थः । अयं द्वितीयार्थस्तु ( उद्देश्यत्वम् उद्देश्यित्वं वा) यदि वह्निसाध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्त्वेन पर्वतमनुमिनोमि इत्यादिवाक्यस्यापि प्रामाण्यं मन्यते तदाङ्गीकर्तव्यः । तथा च तादृशद्वितीयार्थोद्देश्यत्वादेश्व तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेन्वयः कर्तव्यः । वह्निमत्त्वेनेत्यत्र तृतीयार्थो वैशिष्ट्यम् । तच्चान विधेयत्वमेवेति न तृतीयार्थानुपपत्तिः (ग० व्यु० का० २ ख० २ पृ० ५५-५६ )। यथा वा विष्णुं यजते इत्यादौ द्वितीयार्थः । कचिच्च समवायसंबन्धावच्छिन्नाधेयत्वसंसर्गावच्छिन्नविषयतानिरूपितप्रकारिता। यथा पुष्पं जिघ्रतीत्यादौ द्वितीयार्थः । अत्र तादृशप्रकारितायाश्च गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षात्मकधात्वथैकदेशे विषयितायां निरूपितत्वसंबन्धेनान्वयः । तेन इदानींतनपुष्पे गन्धः इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकारकत्वेपि तादृशप्रत्यक्षदशायां न कालं जिघ्रति इत्यादिप्रयोगः ( ग०व्यु० का० २ ख० १ पृ० ५२ ) । कचिच्च लौकिकविषयित्वम् । यथा घट पश्यतीत्यादी द्वितीयार्थः । कचित् तादात्म्यसंबन्धावच्छिन्नप्रकारता । यथा रङ्गे अभेदेन रजतारोपस्थले रङ्गं रजतं जानाति इत्यादौ द्वितीयार्थः । क्वचित् विशेष्यता । यथा पाकं चिकीर्षतीत्यादी द्वितीयार्थः । अत्र पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते । न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासति इत्यादिप्रयोगापत्तः (ग० व्यु० का० २ ख० २ पृ० ५९ ) । अत्रेदं ज्ञेयम् । क्यजाद्यन्तादेरकर्मकस्य सन्नन्तसमानार्थकत्वेपि पुत्रीयति पुत्रकाम्यतीत्यादी साकाङ्क्षत्वानुपगमेन न द्वितीया । भृत्यं पुत्रीयतीत्यादौ तु आचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यत एवेति तत्र द्वितीया ( ग० व्यु० का० २ ख० २ पृ० ६३ ) । कचित् मुख्यविशेष्यत्वम् । यथा वृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैव न तु वृष्टेः कर्मत्वं द्वितीयार्थः । अतस्तत्र तादृशविवक्षायां सुखमिच्छति इत्यादिवत् वृष्टिमिच्छति इत्यादयो - न प्रयोगाः (ग० व्यु० का० २ ख० २ पृ० ५९)। कचित् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy