SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ३५५ २।२।११-१२) (त० सं० )। तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० भा० पृ० ३१)। अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति (मु० १ दिक्० पृ० ९४ ) ( सि० च० १ पृ० १० )। यद्यपि दिगेकैव तथाप्युपाधिभेदात्याच्यादिभेदव्यवहारः ( भा० ५० श्लो० ४८ )। कार्यभेदाच्च नाना (वै० २।२।१३-१४ )। दिशि पञ्च गुणा वर्तन्ते। संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा० पृ० ३१ ) ( भा० प० श्लो० ३३ )। दिगुपाधिः-प्राच्यादिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः प्राच्या उपाधिः (वै० २।२।१४-१६ )। दिगुपाधयः पञ्च मूर्तानि पृथिवी आपः तेजः वायुः मनश्चेति । दिग्विशेषणता-( स्वरूपसंबन्धः ) सर्वाधारतानियामको दिकृतविशेषण ताख्यः । अयमेव दैशिकविशेषणताशब्देन व्यवह्रियते। दिमात्रम्-१ स्वल्पम् । २ एकदेशः । यथा दिमात्रमुदाह्रियते इत्यादौ। दिनम् । सूर्यकिरणावच्छिन्नः कालः। यथा आयोजयत्स धर्मात्मा दिवसे दिवसः। दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादौ (वाच०)। पुरुषार्थचिन्तामणौ वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन कीर्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन सौरो दिवस उच्यते। चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः॥ ( पु० चि० पृ० २)। नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागोर्कराशेस्तु. दिवसः सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो भूपरिधर्मतः इति ( वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभेदात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः। चान्द्रमासात्मकः पित्र्यः । सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति । दिवाकरः-(तिथिः ) सप्तमी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः अष्टमी । दिवाकरः सप्तमी (पु० चि० पृ० १००)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy