SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ३५१ दशापवित्रम्-[क] वासःखण्डः । यथा दशापवित्रेण ग्रहं समाष्टि ( जै० न्या० अ० ३ पा० १ अधि० ७) । [ख] दशापवित्रं खण्डपटः ( जै० सू० वृ० अ० ३ पा० १ स० १२)। . दा-(धातुः ) उत्सर्गपूर्वः स्वस्वत्वानिवृत्तिपूर्वः परस्वत्वेन संबन्धः (जै० सु० वृ० अ० ४ पा० २ सू० २९)। दाक्षायणयज्ञः-आवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायण यज्ञः । आवृत्तिप्रकारस्तु द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये इत्यादि वाक्यशेषादवगम्यते ( जै० न्या० अ० २ पा० ३ अधि० ४ )। दाक्षिण्यम्-तत्त्वज्ञानाभिनिवेशिनी बुद्धिः ( न्या० क० पृ० १०)। दानम्-१ [क] स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा। यथा ब्राह्मणाय धनं ददातीत्यादी ददात्यर्थः । अत्र तादृशस्वत्वरूपधात्वर्थतावच्छेदकफल एव द्वितीयार्थान्वयः । उपेक्षायामतिव्याप्तिवारणाय परस्वत्वनिवेशः (ग० व्यु० का० २ ख० १ पृ० ४३)। [ख] स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिकेच्छा । दानं च न संप्रदानस्वत्वजनकम् अपि तु तत्स्वीकार एव इति मताभिप्रायेणेदं निर्वचनम् । एतन्मते ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मता इति बोध्यम् (ग० व्यु० का० २ पृ० ४३)। [ग] मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्वजनकत्याग इति संप्रदायः ( दि० गु० )। यथा विप्राय गां ददातीत्यादौ ददात्यर्थः। अत्र मूल्यग्रहणं विना विप्रोद्देश्यकगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वजनकत्यागानुकूलकृतिमान् इत्यन्वयबोधः ( का० व्या० पृ० ५)। [घ] शास्त्रोक्तसंप्रदानस्वत्वावच्छिन्नद्रव्यत्याग इति रत्नाकरप्रभृतयः । अत्रोदेश्यपात्रविशेषो यदि न तद्रव्यं स्त्रीकरोति तदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्वं निवर्तत इति तन्मताभिप्रायो ज्ञेयः । [ङ ] शास्त्रोक्तसंप्रदानस्वत्वापादकद्रव्यत्याग इति केचिच्छास्त्रज्ञा आहुः । अत्रायमाशयः । प्रदानं स्वाम्यकरणम् इति मनूक्तेः दानमात्रात् संप्रदानस्य तद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुः स्वत्वोपरमात्तद्धने गर्भस्थस्येव इति । तथा च दत्तस्य प्रतिग्रहः न तु प्रतिग्रहघटितं दानम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy